SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७४ [ उत्तरार्धे साहित्यसारम् । यस्यां तुल्यादिनेवादेरुक्तिः सार्ध्यस्ति वाक्यगा । सदृशं शरदनेन सौरभ्यात्सुदृशो मुखम् ॥ ३५ ॥ ज्वाला बहिर्दहन्ती माम् । पतिमन्तरा कुरङ्गीमिव तु कृशाङ्ग हरे विनाद्य त्वाम् इति । इदं हि राधिकासंप्रेषितसख्यास्तद्विरद्दवैक्लव्यप्रतिपादकं वाक्यं श्रीकृष्णं प्रत्येवैकान्ते । इहोपमेयं कृशाङ्गी । उपमानं कुरङ्गी । साधारणधर्मः । क्रमादयि कृष्ण, त्वां विना पतिमन्तरा च अन्तःकरणावच्छेदेन शरीरावच्छेदेन च अद्य वसन्तकाले विरहमिहिरज्वाला दह्यमानत्वमेव । इवशब्दो वाचकश्च । ननु सामान्योपमाया एवमेतस्या विशिष्टपूर्णोपमायाश्व को भेदः । उदाहरणयोस्तु 'ब्रह्मेव शुचि विन्मनः' इति 'श्रीस्ते धीरिव निश्चला ' इति च परमाणुमात्रमपि न्यूनत्वानवेक्षणात् । नच लक्षणभेदाद्भिदिति सांप्रतम् । लक्ष्यानुरोधेन हि लक्षण कल्पना नतु लक्षणानुरोधेन लक्ष्यव्यवस्थेति न्यायस्य सर्वसंमतत्वेन तस्याप्रयोजकत्वात् । नापि सामान्यविशेषाभ्यां भेद इति युक्तम् । तस्यैव लक्ष्ये तावदुदाहरणयोरन्यूनानतिरेकेण तिलमात्रमप्यनुपलब्धेरिति चेद्वाढम् । प्रत्येकं लक्षणावच्छेदेन सामान्यविशेषयोः स्फुटमुपलम्भात् । उदाहरणयोस्तदनुपलम्भस्य तु मया पूर्णा प्रथमभेदसमानोदाहरणमेव सामान्योपमास्थलेऽपि बुद्धिपूर्वकमेवोपमासर्वांश संप्रहवशादेवोक्तमित्यकिंचित्करत्वाच्च । इह श्रौतत्वप्रयोजकं शक्तिवृत्त्यैवोपमेयादीनां चतुर्णामपि प्रतिपाद्यत्वं किमिति वक्तव्यं 'सोमेन यजेत' इति पूर्वमीमांसायां सोमपदे मत्वर्थलक्षणयापि यागस्य 'तत्त्वमसि' इत्युत्तरमीमांसायां तु सकलपदलक्षणयापि ब्रह्मात्मैक्यस्य श्रौतत्ववदत्र लाक्षणिक पदप्रयोगेऽपि तथात्वसंभवादिति चेन्न । लाक्षणिकालंकाराणामप्रे पृथगेव विवक्षितत्वेनात्र शक्तिवृत्तिगम्यत्वस्यैव तत्प्रयोजकत्वेनेष्टत्वात् । तदुक्तं काव्यप्रकाशे — 'यथेव वादिशब्दा यत्परास्तस्यैवोपमानताप्रतीति:' इति यद्यप्युपमानविशेषणान्येव ते तथापि शब्दशक्तिमहिना श्रुलैव षष्ठीवत्संबन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमेति । एवमुपमेयाद्यर्थचतुटयोपादानमेव पूर्णत्व प्रयोजकमित्यप्युक्तं तत्रैव । उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णेति । तथा गीः शब्दप्रयोगध्वनितं वाक्यगतत्वे प्रयोजकमपि प्रत्येकं चतुर्णामपि पदार्थानां विभिन्न समस्तादिपदैः प्रतिबोधनमेवेत्यप्युक्तं काव्यप्रदीपकृतापि । वाक्यं विग्रहः तेन उपमानादिपदानि चत्वार्यपि यत्रासमस्तानि भिन्नविभक्तिकानि सा वाक्यगतेति । ननु धीरिवेत्यत्र इवेन समासो विभक्त्यलोपश्चेत्यनुशासनादत्रापि समाससत्वात्कथमिदं वाक्यगतायाः श्रौत्याः पूर्णोपमाया उदाहरणमिति चेत्सत्यम् । उक्तशास्त्रस्य वैकल्पिकत्वात् । रसगङ्गाधरेऽपि इवेन समास इत्येव पाठान्नित्यत्वाभावादिति तथैवोक्तत्वाच्च । तस्माद्धंसीवेत्यादिवदिदं युक्तमेवोदाहरणमिति दिक् ॥ ३४ ॥ एवं श्रीत चाक्यगतां पूर्णोपमां लक्षणोदाहरणाभ्यां निर्वर्ण्यदानीं क्रमप्राप्तामार्थी तां लक्षयति-यस्यामित्याद्यर्धेन । यस्यामुपमायां इवादेः उपमावाचकस्येवशब्दादो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy