________________
साहित्यसारम् ।
दीक्षितैरष्टमी वाचकोपमानविलोपनात् । उक्ता साप्यत्र संग्राह्या तथा काव्येऽनुभूतितः ॥ २७ ॥ तत्रोपमानलुप्ता वाक्य समासगतेर्द्विधा । धर्मलुप्ता वाक्यगा स्याच्छौत्यार्थी च समासगा ॥ २८ ॥ सा तद्धितस्था त्वार्थ्येव न श्रौतीत्यस्ति पञ्चधा । तथा वाचकलुप्ताथ समासस्था तथैव च ॥ २९ ॥ कर्मणिक्यगताधारक्यगता क्यङ्गतापि च । कर्मकर्तृणमुलूगत्वभिदा द्वेधेति षड़िधा ॥ ३० ॥ धर्मोपमानलुप्ता वाक्य समासगतेर्द्विधा । तथा वाचकधर्माभ्यां लुप्ता किप्गा समासगा ॥ ३१ ॥ स्वत्राचकोपमेयाभ्यां लुप्ता क्यच्येकधा तथा । लुप्ता धर्मोपमानाभ्यां वाचकेन समासगा ॥ ३२ ॥ वाचकलुप्तेति यावत् । उपसंहरति — इतीत्यादि ॥ २६ ॥ नन्वप्पय्यदीक्षितैः कुवलयानन्दे लुप्तोपमायाः 'वयपमानधर्माणामुपमावाचकस्य च । एकद्विश्यनुपादानैर्भिन्ना लुप्तोपमाष्टधा' इति कारिकादिभिरष्टविधत्वमुक्तं तत्कथमित्याशङ्कयेदं मया वक्ष्यमाणरसगङ्गाधर संगृहीतप्राचीनालंकारिकरीत्यैवोक्तं नतु स्वकल्पितम् । तथा चैत एव सप्तापि भेदास्तैर्विभिन्नक्रमेणोक्ताः परंतु वाचकोपमानलुप्ताख्यस्तद्भेदस्तैरधिक एवोक्तः सतु क्वाप्यत्र नैवान्तर्भवति प्रतीयते च काव्य इति संग्राह्य एवेहासाविति समाधत्ते—दीक्षितैरित्यादिना ॥ २७ ॥ ननु भवत्वेवमथाप्येतासां सप्तानामपि किमवान्तरभेदाः संभाविता नोच्यन्त इत्याकाङ्क्षायां तानभिदधानः प्रथममुपमानलुप्ताया भेदावाह - तत्रेत्यर्धेन । तत्रोद्दिष्टसप्तकमध्य इत्यर्थः । वाक्येति । वाक्यगता समासगता चेति द्विप्रकारेति यावत् । अथ धर्मलुप्तायाः भेदानभिधत्ते - धर्मेत्यादिना । वाक्यगेति । तथा वाक्यगेव समासगा समास्थितापि श्रौत आर्थी चेत्यर्थः ॥ २८ ॥ सेति । धर्मलुप्तेत्यर्थः । एवं वाच - कलुप्ताया अपि भेदानाह - तथेत्यादिसार्धेन । तथेति समुच्चये । अथ धर्मलुसाभेदकथनानन्तरं तथैवेति वक्ष्यमाणसमुच्चये । चः पादपूरणे ॥ २९ ॥ कर्मणीति । कर्मेति । कर्मणमुलूगत्व कर्तृणमुल गत्वभेदेनेत्यर्थः । कर्मक्यजादयः पञ्चाप्येते व्याकरणशास्त्रविहिताः प्रत्यया एव ॥ ३० ॥ अथ धर्मोपमानलुप्ताया भेदावाह— धर्मेति । वाक्येति । वाक्यगता समासगता चेति द्विविधेत्यर्थः । एवं वाचकधर्मलुप्ताया अपि भेदावाह - तथेति । वाचकेति । वाचकधर्मनिमित्तकलोपवती वाचकधर्मलुप्तेत्यर्थः । क्विप्गा क्विप्प्रत्ययगतेत्यर्थः ॥ ३१ ॥ एवं वाचकोपमेयलुप्ताक्यच्प्रत्ययस्थैकविधैवेत्याह-स्वेत्याद्यर्धेन 1 स्ववाचकमु
३७२
[ उत्तरार्धे
पमावाचकं इवादिपदं च उपमेयं चेति तथा ताभ्यामित्यर्थः । वाचकोपमेयनिमितकलोपवतीत्येतत् । एवं धर्मोपमानवाचकलुप्ताया अपि समासगतत्वेनैकविधत्व