SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ कास्तुभरत्नम् ८ ] सरसामोद व्याख्यासहितम् । I 1 पेक्षेत्यन्योन्याश्रयः । ननु काव्यप्रकाशादौ काव्यस्य योयं ध्वनित्वादिविभागः कृतः स एव यदि साधीयांश्चेत्तर्हि तन्निदर्शनेनेदं भावत्कमलंकाराणामप्युपमादीनां ध्वनित्वादिना चातुर्विध्यं साधु स्यात्स तु तत्खण्डकेन काव्यामृतकृता खण्डितः प्रतिभाति । तद्यथा । ननु काव्यस्य ध्वनित्वादिना यः कृतो विभागः सच नोपपद्यते । तथाहि यत्तेषु त्रिषु सर्वत्र रसादिकं प्रतीयते नवा । नान्यः । तदा यत्र न प्रतीयते तत्र काव्यत्वविरहापत्तेः । नाद्यः । तदा कथं ध्वनित्वादिना विभागः । नच मध्यमे आन्तरालिकव्यङ्गयस्याप्राधान्याद्विभाग इति वाच्यम् । आन्तरालिकव्यङ्गयस्याप्राधान्येऽपि तस्याकिंचित्करत्वेन चमत्कारापेक्षया सर्वेषां ध्वनित्वसंभवात् । अथ चित्रगुणालंकाराहितचमत्कारेण रसस्तिरोधीयत इति चित्रत्वमिति चेन्न । अनवबोधात् । तथाहि तिरोधीयत इत्यस्य कोऽर्थः । रसादेः प्रतीतिप्रतिबन्धो विलम्बेन प्रतीतिर्वा । नाद्यः तथा सति काव्यत्वविरहापत्तेः । नान्त्यः । गुणालंकारा हि रसोद्बोधकाः । तथाच तज्ज्ञानतदाहितचमत्कारानन्तरं रसोद्बोधो युज्यत एवेति कथं न ध्वनित्वम् । अतएव रसध्वनावपि गुणालंकाररचना साधीयसी महाकवीनां दृश्यते । यथा - 'गच्छति पुरः शरीरं धावति पश्चादसंस्थूलं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य' । यथावा – 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषे - ण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः' इति । अत्रोच्यते - एतावता ह्यनेन काव्यप्रकाशकारोक्त गौणव्यङ्गयाख्य मध्यमकाव्ये व्यङ्ग्यस्य रसस्याप्राधान्यं तु स्वीकृतमेवाथापि तस्याकिंचित्करत्वरूपं मध्यमकाव्यत्व संपादनेऽप्रयोजकत्वं यदुक्तं तत्परं मत्सरप्रयुक्तमेव । तथाहि इदं यत्तेनैवोदाहृतं काव्यद्वयं क्रमात्कालिदासीयशाकुन्तलनाटकस्थं दुष्यन्तवाक्यं भवभूतीय मालतीमाधवाख्यप्रकरणस्थं माधववाक्यं च । तत्राद्ये पूर्वार्धे शकुन्तलावलम्बी दुष्यन्ताश्रितः स्मृत्यात्मकः संचारिभाव एव शरीरपुरोगमन व्याकुलत्व विशिष्टचेतः पश्चाद्गमनरूपानुभवाभ्यां परिपुष्टस्तद्विषय करतिमूलकोऽयं शृङ्गारभावध्वनिरप्युत्तरार्धोक्तपूर्णोपमालंकारादेव काव्यविभावनपरिपक्वहृदयाख्यसहृदयानां तथा तत्कथितवाक्यार्थश्रवणोत्तरं पामराणामपि रसिकानां सद्यश्चमत्कारनामक विपुलानन्दस्य प्रथमं शक्तिवृत्तिजन्यतया बलवत्तरत्वात्पश्चाद्भवन्नुक्तशक्तिमूलकव्यञ्जनावृत्त्या जातोपि खजन्यानन्दजनने तदपेक्षया गौण एवेति सर्वानुभवसिद्धम् । नहि मलयानिलस्य पूर्व पाटीरसौरभ्यावघ्राणज• न्यानन्दहदमग्ने मनसि पश्चात्संपन्नतदीयशिशिरस्पार्शनानन्दस्ततोऽधिको भवति । एवं द्वितीयपद्येऽपि मालत्यालम्बितो माधवाश्रितः स्मृत्याख्यसंचार्येव तद्विषयक - रतिमूलकस्तद्गमनकालिकवलितग्रीवाननाद्यनुसंधानानुभावितत्वेन पुष्टः शृङ्गारभाव - ३६९ ध्वनिरपि वाच्यतया प्रथमसंजातालुप्तोपमापह्नुत्युत्प्रेक्षाद्यलंकारानन्दादुत्तरभाविनं शक्तिमूलकव्यञ्जनाजन्यख विषय कज्ञानजन्यमानन्दमधिकं विधातुं नैवालमित्यपि तथैव । तस्मादिदं ध्वनिगौणव्यङ्गयादिकाव्य विभेदनं काव्यप्रकाशकृतं प्राचीनाव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy