________________
३६८
साहित्यसारम् ।
[ उत्तरार्धे
रुल्लसति द्वयोः' इत्यर्ध व्याकुर्वाणाः संतो यत्रेत्याद्यूचुः । तद्यथा यत्र काव्ये द्वयोः उपमानोपमेययोः सादृश्यलक्ष्मीः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यं उल्लसति । उद्भूततया लसति व्यङ्गचमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकार इति मूलसंगतिः उद्भूततयोल्लसतीत्यपपाठ एव । उद्भूततयेत्यस्य वैयर्थ्यापत्तेः। एवंच मयात्र यदित्यादित्रिपाद्या तत्तात्पर्यमेव संगुम्फितमिति सहृदया एव विदांकुर्वन्तु । एतेन रसगङ्गाधरोऽपि व्याख्यातः । तत्र हि सादृश्योक्त्यन्यथानुपपत्त्यैवोपमानोपमेययोः सिद्धौ लाघवार्थमेव तग्रहणं कृतमिति विशेषः । चन्द्रालोके कुवलयानन्देऽत्र मदीयत्रिपाद्यामपि स्पष्टप्रतिपत्त्यर्थमेव तस्कृतमिति नैतावता गौरवापत्तिः । तावन्मात्रांशस्य लक्षणकुक्ष्यनिक्षेपेप्यक्षतेः । नचैतावतापि व्यङ्ग्यमर्यादां विनेति वदद्भिदक्षितैर्व्यङ्गयोपमायाः पर्युदासो यः कृतस्तस्य का गतिः । तस्या अलंकारत्वेप्यवाच्यत्वेन वाच्येष्वर्थालंकारेष्वविचार्याया व्यङ्ग्यत्वेन ध्वनिष्वेव विचारितायाश्चीतपर्युदासौचित्यात् । प्रागुक्तालंकारचातुर्विध्येनात्रापि तद्गुणनावश्यकत्वपक्षे तु 'अयं हि धूर्जटिः साक्षात्' इत्यादौ तथा 'चन्द्राननाध्वान्तकचोडुभूषासं ध्याकुसुंभारुणचारुचेला । आकाशआदर्श इयं बभूव किं राधिकायाः प्रतिमैव रात्रिः' इति मदीयकृष्ण लीलामृतपद्ये आदर्श इयमित्यादिरूपे उत्प्रेक्षालंकारघटकेऽनुभयोक्तिताद्रूप्यरूपके यद्यप्युपमानोपमेययोश्चारु सादृश्यं भासत एव, तथापि व्यञ्जनयैव तत्प्रकाशते नतु शक्त्येति तद्युदासार्थ व्यङ्ग्यमर्यादामित्यादेः सार्थक्याच्च । अतएवोपमालक्षणमुक्त्वा तत्पदकृत्यमुपवर्णितं साहित्यदर्पणे- 'साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः'। रूपकादिषु साम्यं व्यङ्गयं व्यतिरेके च वैधर्म्यस्याप्युक्तिः, उपमेयोपमायां वाक्यद्वयं, अनन्वये चैकस्यैव साम्यमित्यस्याभेद इति । नन्वेवमतिभव्यमपि भवत्कारिकायां वाक्यादित्येकवचनादुपमेयोपमायास्तथा वर्ण्यमसुनोरिति द्विवचनादनन्वयस्य च व्युदासेऽपि निरुक्तलक्षणरूपकादावतिव्याप्तिरिति चेन्न । रूपके हि व्यञ्जनया प्रतीयमानसादृश्यस्य व्यङ्गयोपमात्वात्तस्याश्च प्रागुक्तरीत्या काव्यवदलंकारचातुर्विध्येनात्रापि संग्राह्यत्वाद्व्यतिरेके तु 'व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमला:' इत्यादिरूपे शैला इवेत्यादिपूर्वपादे तदपेक्षितोपमानोपमेय प्रकाशनार्थमुक्तोपमाया लक्ष्यत्वेन किंत्वित्याद्यपरपादे तद्विशेषलक्षणव्यतिरेकस्य वैधर्म्यरूपवैसादृश्यै कघटितत्वेन तत्रातिव्याप्तेः स्वप्नेऽप्यसंभवाच । नन्वेवमप्युपमानस्योपमेयापेक्षयाऽधिकगुणत्वेनाभ्यर्हितत्वादुपमानोपमेययोरित्यादौ तथैव प्राचां प्रयोगाच्च त्वयाप्युक्तकारिकायां मञ्जुवर्ण्ययोरित्येव पठनीयमिति चेत्सत्यम् । वर्ण्यस्यैव प्रकृते फलभाक्त्वेन ततोऽप्यभ्यर्हितत्वाज्जीवब्रह्मणोरैक्यमित्यादौ तथैव प्राचां प्रयोगस्यापि दृष्टत्वाच्च । अतएव 'साधर्म्यमुपमाभेदे' इत्यादिकाव्यप्रकाशोक्ततल्लक्षणव्याख्याने जयरामभट्टाचायेणापि तलक्षणं संक्षिप्तम् । तथाचोपमेयोत्कर्षकं साधर्म्यमुपमेति । अत्रापि उपमातुं योग्यमिति व्युत्पत्त्या लक्षणकुक्षिगोपमेयसिद्धावुपमापेक्षा तत्सिद्धौ च तद
1