________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
३६७ स्यादिति संबन्धः। तथाच याहगर्थावबोधकवाक्यकरणकवर्ण्यनिष्ठरुचिरखनिरूपितसुन्दरसादृश्यविषयकज्ञानोदयस्तत्वमेवेहोपमासामान्यलक्षणं पर्यवस्यतीत्याकूतम् । अत्र चन्द्रवत्प्रेयसीमुखमिति वाक्य एवातिव्याप्तिवारणायार्थावबोधकेति । वाक्यग्रहणं तु चन्द्रभिन्नत्वे सति चन्द्रगतानन्दजनकत्वादिसादृश्यमतिरम्यं रामानने खरूपतो वर्तत एवेति तत्राप्युपमापदाभिधेयत्वापत्तिव्यावृत्त्यर्थमेव वन्ध्यापुत्र इव तुच्छः प्रपञ्च इति वाक्यकरणकशाब्दबोधविषयीभूतोपमायामव्याप्तिं निराकत प्रमापदं वि. हाय ज्ञानपदनिवेशः।अन्यथा शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः'इति पातजलसूत्रादुपमानीभूतस्य वंध्यापुत्रस्य तुच्छत्वेन विकल्पैकविषयतया योग्यताराहित्येन शाब्द. प्रमाविषयतयानिरुक्ताव्याप्तितादवस्थ्यमेवाअतएव रसगङ्गाधरे तावदेतागुपमानासंभवोदाहरणे सादृश्यप्रतीत्यभावः साक्षेपमेव प्रतिक्षिप्तः। ननु त्वयि कोपोममाभाति सुधांशाविव पावकः' इत्यादावुपमानस्यात्यन्तमसंभावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम् । चमत्कारस्तु पुनः केन स्यादितिचेत् कविना हि खण्डशः पदार्थोंपस्थितिमता स्वेच्छया संभावितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम् । परमसुकुमारीभवत्कनकनिर्मिताझ्या मणिमयदशनकान्तिनिवारितध्वान्तायाः कान्ताया भावनया पुरोवस्थापिताया आलिङ्गनस्यालादजनकत्वदर्शनादिति । सादृश्य विशेषणीभूतसुन्दरपदव्यावर्त्य तु प्रागेवोक्तम् । नचैवं तर्हि हीनोपमायामुपमात्वानापत्तिरिति सांप्रतम् । असत्काव्यस्येव हीनोपमाया अल. क्ष्यत्वेनेष्टापत्तेः । अतएवोक्तं कुवलयानन्दे-'यत्रोपमानोपमेययोः सुहृदयहृदयालादकत्वेन चारुसादृश्यमुद्भूततया लसति व्यङ्गयमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकार इति । एवं रसगङ्गाधरेऽपि सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतितिरिति च।तथात्र प्रकृतलक्षणे उपमेयपदस्थाने वर्ण्यपदमुपमानपदस्थाने च रुचिरपदं प्रयोक्त्रा लक्षणे उपमातुं योग्यमुपमेयमुपमीयतेऽनेनेत्युपमानमिति च व्युस्पत्योपमायोग्यत्वादिलक्षणोपमेयत्वादेरुपमासिद्धयधीनत्वेनात्माश्रयादयो निरस्ताः । अत एवालंकारचन्द्रिकाकृता तूपमानाद्यघटितमेवोपमालंकारलक्षणं संक्षिप्तम् । इत्थं चालंकारत्वे सति सादृश्यत्वमुपमालंकारलक्षणं बोध्यमिति । तत्रालंकारत्वं तु तदीयमलंकारलक्षणे प्रागेव व्याख्यातं। उर्वरितं यत्सादृश्यत्वं तदपि चन्द्रवत्प्रेयसीमुखमित्यादिपद्यश्रवणादिकं विनापि प्रेयसीमुखनिष्ठनैसर्गिकाह्लादकत्वलक्षणचन्द्रसादृश्यरूपर्मिणिखरूपसद्वर्तत एवेति तां पश्यतस्तद्भर्तुरेतन्मुखनिष्ठानन्दजनकत्वमुपमा वदिति व्यवहारापत्तेः काव्यमुपमावदित्यादिव्यवहारानापत्तेश्च प्रतिपादकतासंबन्धेन काव्येऽपि तद्वर्तत इति चेत्प्रकृतलक्षणे तदनिवेशादुक्तापत्तितादवस्थ्यमेवातदर्थे सर्वात्मना निर्दोषतनिवेशे कर्तव्ये लक्षणान्तरमेव स्यादिति ध्येयम्।तस्मादिदं दीक्षितस्वारस्यानवबोधनिबन्धनमेव लक्षणसंक्षेपणम् । ननु तर्हि त्वया कथं दीक्षितखारस्यमवसितमिति चेच्छृणु।ते हि चन्द्रालोकीयमुपमालक्षणघटकं 'उपमा यत्र सादृश्यलक्ष्मी