SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम्। [ उत्तरार्धे सैव चेयञ्जना गम्या तहवाच्योपमा मता। शाब्दापरोक्षविद्यैव यदद्वैतात्मदायिनी ॥५३॥ चीनाखिलपदवाक्यप्रमाणसाहित्यधुरंधरशिरोधार्यमपि दूषयितुं काव्यामृतकर्तुर्मूलमसूयैवेति तएवावधारयन्तु । एतेन तदीयः सर्वोपि प्राच्योदीच्यस्तत्खण्डनग्रन्थः प्रत्याख्यात एवेति दिक् । ब्रह्मेवेत्यादिना तूदाहरणम् । अत्र वर्ण्यमुपमेयं विन्मनस्तत्वनिष्ठमानसम् । मञ्जुशब्दितमुपमानं ब्रह्म । शुचित्वं पवित्रत्वरूपमुपमाने खा. भाव्यादुपमेये च तदाकारत्वादुभयसाधारणः सादृश्याख्यो धर्मः। इवेत्युपमावाचकमिति बोध्यम् । यथावा मदीये नीतिशतपत्रे-'हितेच्छुना तु कर्तव्यः सतामेव समागमः। सरसानां सुमनसां षट्पदेनेव सर्वदा' इति। अत्र साधारणधर्माभावाद्यथावा तत्रैव-निमेषमपि यो व्यर्थ प्राणान्तेऽपि न वै नयेत् । तस्यैव विद्या दासी स्याद्योगीन्द्रस्येव मुक्तता' इति । अत्र दास्यं साधयं ज्ञेयम् ॥ २२ ॥ एव. मुपमासामान्यलक्षणं सोदाहरणं संप्रपश्य ‘एवं चतुर्विधाः काव्यवदलंकृतयो मताः। ध्वनिखगौणव्यङ्गयत्वार्थचित्रत्वादिभेदतः' इति प्रागुक्तालंकारचातुर्विध्यादर्थचित्रोपमालंकारस्य सद्य एवोक्तत्वेन शब्दचित्रस्य त्वग्रे तद्रत्न एव वक्ष्यमाणत्वेन च रसप्रधानयोर्ध्वनिगौणव्यङ्गयान्तर्गतयोः व्यङ्गयोपमादिरसवदाद्यलंकारयोरेव पूर्व तत्तद्रने सुविचारितत्वेप्यलंकारत्वसामान्येनात्र गणनीयतयाऽवशिष्टयोराद्ययो. ईयोरपि प्रसङ्गाल्लक्षणाद्यपेक्षायां रसवदादेरपि गौणव्यङ्गयाख्योत्तमकाव्यविचारात्मके पञ्चमरत्न एव सलक्षणोदाहरणं प्रतिपादितत्वेनेह श्लेषेण रसवत एवोदाहरणमात्र कथयन्व्यङ्गयोपमामेव वक्ष्यमाणयावदर्थचित्रालंकारेष्वेवमुपलक्षणविधया व्यङ्गयबोनयनार्थ संलक्ष्योदाहरति-सैव चेदिति । सैव प्राग्लक्षितलक्षणोपमैव । यदि व्यञ्जनागम्या व्यञ्जनावृत्तिमात्रलभ्या चेत्तर्हि अवाच्येति । न वाच्या अवाच्या शक्तिवृत्त्यगम्या सा चासावुपमा चेति तथा व्यङ्गयोपमेत्यर्थः । मता सकलालंकारिकमान्यास्तीत्यन्वयः। एतेन व्यञ्जनावृत्तिमात्रगम्यत्वे सत्युपमात्वं व्यङ्गयोपमात्वमिति तल्लक्षणं संक्षिप्तम् । एवमेवाग्रेऽप्यखिलेष्वप्यर्थालंकारेषु व्यञ्जनावृत्तिगम्यत्वेन तल्लक्षणं निर्णेयं तदुदाहरणान्यप्युन्नेयानीति दिक् । अथेमामुदाहरतिसैवेति । सैव यावद्रमणीगुणसंपन्नत्वे सति ब्रह्मवादिनी खकामिनीत्यर्थः । अवधारणेनातादृशस्त्रीव्यावृत्तिः । यदि व्यञ्जना विगतं लोचनचुम्बनेन कामशास्त्रविहि. तेनाञ्जनं कज्जलं यस्याः सा तथा । उपलक्षणमिदमालिङ्गनादियावत्सुरताङ्गानामपि। एवंच वात्स्यायनविहितयावत्संभोगाङ्गसंपादनपूर्विकेतियावत् । एतादृशी यदि गम्या संभोग्या भवति चेत् । एतेनैतादृशखकीयसुन्दरीसंभोगलाभस्य सकलसुकतसंभारसाफल्यं सूच्यते । तेनैतस्याः परमदौर्लभ्यं द्योत्यते । तर्हि अवाच्योपमा अवाच्या अकथनीया उपमा साधर्म्यवयक्तिर्यस्याः सा तथा निरुपमैव मता लोकशास्त्रोभयमान्यैवास्तीति संबन्धः । एवं चैताग्रमणीलाभे सति शिखिध्वजादिवद्भोगमोक्षयोरुभयोरपि पुरुषार्थयोः सामानाधिकरण्येनैव संभवात्किं वाच्यं तत्सं.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy