________________
साहित्यसारम् ।
[ उत्तरार्धे
1
गौणव्यङ्गयेऽपराङ्गस्यालंकारत्वेऽपि चिन्तनम् । रसप्राधान्यतो युक्तं व्यङ्गयालंकारवद्धनौ ॥ १२ ॥ सुमनोलब्धसौरभ्ये जडेऽपि च जनादरः । अधिको दृश्यतेऽथापि जडत्वं तु न हीयते ॥ १३ ॥ तद्वद्रसवदादीनां रसाधिक्येन संग्रहे । गौणव्यङ्गयेऽपि संजातेऽस्त्यलंकारत्वमक्षतम् ॥ १४ ॥ ननु व्यङ्गयोपमादीनां न रसत्वं न चेतरत् । चमत्कारकरत्वं तु दृश्यते तत्कथं भवेत् ॥ १५ ॥ नास्ति कश्चिद्विषयो यत्र ध्वनिगुणीभूतव्यङ्गययोः स्वप्रभेदादिभिः संकरः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्यवहार' इति । एवमेतदुदाहृतस्य ‘अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः' इति रसवदलंकारस्य व्याख्याने जयरामभट्टाचार्येणाप्युक्तम् । अत्र शृङ्गारव्यङ्गयमादाय गुणीभूतव्यङ्ग्यत्वं करुणमादाय तु ध्वनित्वम् । एवमग्रेऽपीति बोध्यमिति । तथाचोक्ताष्टविधरसादीनामप्यङ्गव्यङ्गयमादायैव रसवदाद्यलंकारत्वम् । अङ्गिव्यङ्गयमादाय तु ध्वनित्वमेवेति दिकू ॥ ११ ॥ नन्वेवमेतेषामलंकारत्वे गौणव्यङ्गयाख्योत्तमकाव्यविचारे कुतश्चिन्ताऽकारीत्याशङ्कय व्यङ्गयालंकारस्य ध्वनित्वेन ध्वन्याख्यकाव्यविचारे चिन्तनवद्रसप्राधान्यात्पाक्षिकरसत्वादपीति समाधत्ते – गौणेति ॥ १२ ॥ ननु रसप्राधान्याद्गौणव्यङ्गयाख्योत्तम काव्यकोटिनिविष्टानामपराङ्गत्वापराधमात्रेणालंकारत्वेन मध्यमकाव्यकोटिनिविष्टत्वसंपादन मनुचि• तमेव । नच व्यङ्गयोपमादिदृष्टान्तेन तदधुनैव साधितमिति सांप्रतम् । तत्राप्यस्त्वलंकारत्वं का नः क्षतिरिति पक्षसमत्वेनासंप्रतिपत्तेरित्याशङ्कय दृष्टान्तान्तरावष्टम्भेन समाधित्सुस्तमादौ स्पष्टयति-— सुमनोलब्धेत्यादिश्लेषेण । अपरोपस्कारकत्वं ह्यलंकाराणां साधारणो धर्मः स तु रसाधिक्येऽपि जडस्य मूर्खस्य यथा सुमनःशब्दितसाधुसमागमादिप्रसादेन सौरभ्यपदवाच्य मनोज्ञवलाभेऽपि जडत्वं दुर्निवारमेव तथा नैव नष्टं भवतीति भावः । पक्षे सुमनसः सुरभिपुष्पाणि । जडेऽपि जलेपीत्यर्थः । शिष्टं तु स्पष्टमेव ॥ १३ ॥ दान्तिके योजयति - तद्वदिति । रसाधिक्येन प्रागुक्तापरोपस्कारकत्वलक्षणस्वाभाविकधर्मापेक्षया रसाद्यष्टक प्रतियोगिकान्यतमत्व रूपरसवदादित्व प्रयोजकधर्म विशेषौत्कट्येनेत्यर्थः । गौणेति । गौणव्यङ्गयाख्ये मध्यमतः प्राक्तने उत्तमकाव्यकोटिविशेषमध्य इति यावत् । संग्रहे संजाते मंमभट्टादिभिः प्राचीनाचार्यैः संनिवेशे कृते सत्यपीत्यर्थः । अलंकारत्वमक्षतमेवास्तीति संबन्धः ॥ १४ ॥ भवत्वेवमनेनान्वयदृष्टान्तेन रसवदादीनां रसाधिक्येन गौणव्यङ्गयाख्योत्तमकाव्य विवेक कोटिसंनिविष्टानामप्यपराङ्गत्वेनालंकारत्वमथापि शृणु । व्यङ्गयोपमादीनां नैवालंकारता यथेति प्राग्व्यतिरेकदृष्टान्तीकृते व्यङ्गथोपमादीनामलंकारत्वाभावे हेतुं जिज्ञासुरनिष्टापत्तिपूर्वकमाक्षिपति । ननु
।
1
३६४