SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ३६५ शृणु तेषामलंकारत्वमेवेष्टमथापि ते। न वाच्या इति तञ्चिन्ताध्वनावेव मता यथा ॥ १६ ॥ स्वप्नकान्तारतादीनां सुखदत्वेऽपि सर्वथा। व्यावहारिकता नैव तथैवात्रापि का क्षतिः॥ १७ ॥ एवं चतुर्विधाः काव्यवदलंकृतयो मताः। ध्वनित्वगौणव्यङ्गयत्वार्थचित्रत्वादिभेदतः॥ १८ ॥ तत्राद्ययोर्ध्वनौ गौणव्यङ्गये चिन्ताक्रमात्कृता। गणनैवात्र रसवत्प्रभृतेर्दीक्षितोक्तवत् ॥ १९॥ व्यङ्गयेति । इतरत् अलंकारत्वम् । भवत्वेवं तत्र वस्तुध्वनित्वरूपस्तृतीयभेद एवेतीष्टापत्तिं प्रत्याचष्टे-चमत्कारेत्यादिना । 'यदभावे रसायन्यः शाब्दानन्दो न जायते' इत्यादिप्रागुपपादितालंकारलक्षणस्यातिव्याप्तिस्तु तृतीयभेदपक्षे वज्रलेपायितैवेत्याकूतम् ॥ १५ ॥ एवमुक्ताक्षेपं समाधातुं प्रतिजानीते-श. ण्विति । तदेवाह-अलमित्यादिना । एवं तर्हि कथं ते ध्वनित्वेनैव पूर्वाचार्यैर्विचारितास्त्वयापि चतुर्थरत्ने तथैव संग्रथितास्तथाऽधुनापि शुण्वित्यादिना सिद्धवत्कारेणैव तदलंकारत्वाभावोऽत्र दृष्टान्तीकृत इत्याशङ्कां खाशयप्रकाशनेन शमयति-अथापीत्यादिना । वाच्याः शब्दशक्तिगम्या न भवन्तीति हेतोरित्यर्थः । तच्चिन्ताव्यङ्गयोपमाद्यलंकृतिविचार इत्येतत् । ध्वनावेव ध्वनिसंज्ञकोत्तमोत्तमकाव्यविचार एव मता सर्वालंकारिकमान्यास्तीत्यन्वयः । नचैवं चेत्तर्हि रसवदादीनामप्यलंकाराणां वाच्यत्वाभावादलंकारेषु विचारानौचित्यमेवेति वाच्यम् । इष्टापत्तेः। अतएव ते मया प्राचीनाचार्यानुसारेण गौणव्यङ्गय विचार एव प्रपञ्चिताः । नाप्येवं तर्हि कुवलयानन्देन सह विरोधः । तस्यानुपदमेव परिहरिष्यमाणत्वात् । नन्वलंकारत्वसाम्येऽपि व्यङ्गयोपमादीनां कथं ध्वनिलं वाच्यत्वाभावमात्रापराधेनास्मगुद्धिमारोहेदिति वदन्तमनुजिघृक्षुदृष्टान्तं प्रतिजानीते-यथेति ॥ १६ ॥ तं व्याचष्टे-स्वप्नेति । आदिनाऽऽलिङ्गनचुम्बनम. णितादीनि । अत्रायं प्रयोगः–व्यङ्गयोपमाद्याः न स्थूलत्वेन व्यवहार्याः सूक्ष्मतमत्वात् । खप्नाङ्गनालिङ्गनादिवदिति ॥ १७ ॥ फलितमाह-एवमिति । अलंकृतयः अलंकाराः मताः प्राचामिति शेषः । चातुर्विध्यमेव प्रबोधयति-ध्वनित्वे. त्यादिना । गौणेति । तद्गतापराङ्गत्वप्रयुक्तरसवदाद्यलंकारतेत्यर्थः । आदिना शब्दः ॥ १८ ॥ भवत्वेवं किं ततः प्रकृत इति तदाह-तत्रेति । आद्ययोर्व्यङ्गयोपमारसवदाद्योः रसवत्प्रभृतेः रसवदाद्यलंकारस्य-दीक्षितेति । यथा कुवलयानन्दे तैस्तस्याष्टविधस्यापि रसाभासादावाभासतयैकीकारेण सप्तविधतयैव गणना कृता केवलमुदाहरणानि तु प्राचीनवदष्टावप्यत्रैव लिखितानि तथा मया
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy