SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ३६३ एवं कुवलयानन्दे रसालंकारतोक्तितः। अलंकारविशेषत्वमपि तषां प्रतीयते ॥१०॥ शृणु व्यङ्गयोपमादीनां नैवालंकारता यथा । अपराङ्गरसादीनां तथा नैव रसादिता ॥११॥ त्वेनैव प्रतीयन्त इति संबन्धः ॥ ९॥ एवं द्वितीयकोटावपि तं स्पष्टयति–एव. मिति । रसेति । रसप्रधाना अलंकारा रसालंकारास्तेषां भावोक्त्येत्यर्थः । तदुक्तं कुवलयानन्द एव । 'चत्वारो रसवत्प्रेय ऊर्जखि च समाहितम् । भावस्य चोदयः संधिः शबलत्वमिति त्रयः' इत्यादिना ॥ १० ॥ एवं रसवदायलंकारा. न्तर्भावाधिकरणं किं रसाः किंवालंकारा इति सहेतुके संशये समुपन्यस्ते सति सिद्धान्ती समाधातुं शिष्यं संमुखीकरोति-शृण्विति । तत्र रसवदाद्यलंकाराणामलंकारत्वमेवेति निरुक्तसंशयनिविष्टद्वितीयकोटिमेव सिद्धान्तत्वेनाङ्गोकुर्वाणः प्रथमकोटिभूतरसभेदविशेषत्वं प्रत्याचक्षाणश्च संस्तत्र दृष्टान्तं स्पष्टयति-व्यङ्गये. त्यादिना । व्यङ्गयाः व्यञ्जनावृत्तिमात्रसिद्धाः ये उपमाद्यलंकारास्तेषामित्यर्थः । तत्र तु व्यङ्गयोपमा यथा गोवर्धनसप्तशत्याम्-'आखादितदयिताधरसुधारसस्यैव सूक्कयो मधुराः । अकलितरसालमुकुलो न कोकिलः कलमुदश्चयति' । अत्रोत्तरार्धगतार्थान्तरन्यासेन क्रमाद्दयिताधरे रसालमुकुलस्य कवौ च कोकिलस्योपमालंकारो व्यङ्ग्यः । अत्र विस्तरस्तु पञ्चमरत्ने प्रपञ्चित एव । कुतो नास्त्येतेषामलंकारतेति शङ्का त्वग्रेऽनुपदमेव साक्षेपं प्रत्याचक्षामः । अपराङ्गेति ।अपराङ्गत्वेन गौणव्यगथविचारात्मकपञ्चमरत्ने प्रपञ्चितानां रसभावतदाभासभावशान्त्याद्यात्मकानां रसवदादिसंज्ञानां रसालंकाराणामित्यर्थः । शिष्टं तु स्पष्टमेव । एवंच पञ्चमरत्नेऽपराङ्गाख्यगौणव्यङ्गयविचारेऽपरस्य रसस्याङ्गीभूतं रसान्तरं रसवदलंकाराख्यं यन्मयोदाहृतं प्राकू 'हन्त भो कान्त पञ्चेषो मत्कुचाञ्चितकुङ्कुमैः । किर्मीरितं वदनं यत्तदद्यानङ्गतां गतम्'इत्यत्राङ्गिनः प्रधान्येन प्रतीयमानस्य करुणस्याङ्गीभूते शृङ्गारे व्य. ङ्गयोपमादीनामलंकाराणामपि व्यङ्गयत्वादेवालंकारत्वाभाववदपराङ्गत्वादेव रसादिध्वनित्वं नैव भवतीति भावः । नन्वेतेषामपराङ्गत्वेन गुणीभूतत्वाद्गौणव्यङ्गयत्वात्मना मध्यमकाव्यत्वसंपादकत्वं भवतु नाम तथापि रसादित्वेनैव प्रत्यक्षमनुभूयमानत्वात्कथं न रसादिता कथं वाऽलंकारविशेषतैवेति चेत्सत्यम् । यथा व्यङ्गयोपमादीनामलंकाराणामपि व्यङ्गयत्वादेव ध्वनिशब्दार्थत्वं तथाऽपराङ्गीभूतानां रसादीनामपि शब्दाङ्गीभूतानुप्रासादीनामाङ्गीभूतोपमादीनां च शब्दाद्यलंकारत्ववद्रसाद्यङ्गीभूतानामपि रसभावाद्युक्ताष्टपदार्थानामपि सामान्यतो ह्यलंकुर्वन्ति चारुतातिशयं जनयन्तीति व्युत्पत्त्या रसालंकारत्वं तान्त्रिकसंज्ञया विशेषतो निरुक्ततत्तदवच्छेदेन रसवदाद्यलंकारत्वं च किमिति न समुचितं स्यात् । वस्तुतस्त्वेतदपि तत्तदङ्गतापन्नरसादीनां व्यक्तिमादायैव अङ्गिनां रसादीनां व्यक्तिप्राधान्यमादाय तु ध्वनित्वमेव । तदुक्तं काव्यप्रकाशे-'यद्यपि स
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy