________________
३६२ साहित्यसारम् ।
[उत्तरार्धे तत्रापि चार्थचित्रालंकारत्वं तु रसादितः । भेदे जन्यमाजन्यानन्दहतुत्वमिष्यताम्॥७॥ गौणव्यङ्गयेऽपराङ्गत्वाद्रसालंकारतां गताः। तेषां रसवदादीनां रसभित्त्वमुतान्यता ॥ ८॥ अगूढमपरस्याङ्गमिति कारिकया यतः।
गौणव्यङ्गयनिवेशात्ते प्रतीयन्ते रसांशतः ॥९॥ रसाद्यभावादिदं रसाद्यन्यः शाब्दानन्दो नैवेति वचनं नीलमित्यादिवद्वाड्मात्रमेवेति भावः ॥ ६॥ ननु भवत्वेवमलंकारसामान्यलक्षणमथापि प्रकृततद्विशेषलक्षणं कथमित्यपेक्षायां तदपि संक्षिपति-तत्रापि चेति । रसेति । अत्राप्यादिपदेन प्राग्वदेव । एवंच रसायष्टका दे सतीत्यर्थः । गोजन्येति । 'गौः खर्गपशुवाग्वज्रदित्रवृणिभूजले' इत्यमराद्गोशब्देन वाक्यविशेषस्तजन्या या मा तदर्थविषयिणी प्रमा तज्जन्यो य आनन्दस्त तुत्वमित्यर्थः । मापदं शब्दालंकारपर्युदासार्थम् । सत्यन्तं रसादिव्युदासाथै च । एवंचैतादृशानन्दकन्दीभूता उपमाद्यलंकारा एवेति भावः । एवंच रसादिभिन्नत्वे सति वाक्यविशेषकरणकप्रमाप्रयुक्तप्रमोदप्रयो. जकत्वमर्थालंकारसामान्यलक्षणमिति संक्षेपः । पक्षे नन्वेवं यदि तावकः सिद्धान्तश्चेत्तर्हि किमित्यस्माभिरिमे भूरि वित्तव्ययेन हीरकादिरत्नकाश्चनाद्यलंकाराः संपादिता इति कान्तस्य शङ्काशान्तये पुनः सैव वसुन्दरी समाधत्ते । तत्रापि चेति तत्खरू. पकथनव्याजेन । तत्रापि निरुक्तरीत्या काचकङ्कणानामेव सौभाग्यमूलत्वेन मुख्यालंकारत्वे सत्यपीत्यर्थः । अर्थेत्यादि । तुशब्दः पूर्ववैलक्षण्यार्थः। रसादितः भेदे सति यावन्मनसि शृङ्गाररसभावाद्याविर्भावो नाभूत्तादृगवस्थात्वे सतीत्यर्थः । गोजन्येति । गावः किरणास्तजन्या या मा शोभा तया यः जन्याः 'समा स्नुषाजजनीवध्वंः'इत्यमरात् स्नुषाया आनन्दस्तद्धेतुत्वं तद्दशायामेवानन्दकारणत्वमितीष्यतामिति संबन्धः ॥ ७ ॥ एवमर्थचित्रात्मकमध्यमकाव्यभेदप्रयोजकार्थालंकारसामान्यलक्षणेऽपि रसादिभेदनिवेशात्तघ्यावय॑स्मृत्योपस्थितानां रसवदाद्यलंकाराणां क्वान्तर्भावः कार्यः किं रसेषु यद्वालंकारेष्विति शङ्कते-गौणेति । गौणव्यङ्गयाख्योत्तमकाव्यविचारात्मके पञ्चमरत्न इत्यर्थः । अपरेति । अगूढमपरस्याङ्गमित्यादिगौणव्यङ्गयस्य भेदाष्टकप्रतिपादककाव्यप्रकाशकारिकोक्तापराङ्गाख्यतदीयद्वितीयभेदत्वादित्येतत् । रसेत्यादि । अत्र ये इत्यार्थिकम् । तथाच ये रसालंकारसंज्ञा प्राप्ता इत्यर्थः तेषाम्-रसवदिति। आदिना प्रेयऊर्जविसमाहिता ग्राह्याःारसेति। रसभेदत्वं अस्ति उत अथवा अन्यता अलंकारभेदत्वमेवास्तीति संशय इत्यन्वयः ॥ ८॥ ननु कोऽत्र संशये हेतुरित्याशङ्कय प्रथमकोटौ तं प्रकटयति-अगूढ. मिति । इत्यादिकाव्यप्रकाशकारिकयेत्यर्थः । यतः हेतोस्ते रसवदादयोऽष्टौ रसालंकाराः रसवत्प्रेयऊर्जविसमाहितभेदेन चतुर्विधा अपि । गौणेति । मंमटभट्टमतानुसारेण गौणव्यङ्गयाष्टकमध्येऽपराङ्गत्वेन संग्रहादित्यर्थः । रसेति । रसांश