________________
३६१
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
नच नैव रसायन्यः शाब्दानन्द इतीर्यताम् ।।
नीलं नभो विभात्येतदिन्द्रनीलकटाहवत् ॥ ६॥ कस्यचिद्रसस्य व्यञ्जको रसो भवति भावादिर्वा येनापरस्याङ्गं सबसवत्प्रेयआद्यलंकारः स्यात् । तथोदासीनतादशायां व्यङ्गयोपमाद्यलंकारभिन्नस्तु वर्तत एव । एवं ज्ञातार्थत्वेन तत्र चमत्कृतिजनकतावच्छेदकता या सा ज्ञाननिष्ठविषयितासंबन्धावच्छिन्ना भवति । तत्र विशेषणत्वेनानन्दकरस्य कामिनीत्वादेरवच्छेदकत्वमित्यनलंकारेऽप्युदासीनकामिन्यादावुक्तालंकारलक्षणसंचारः संप्राप्त एव । नहि कामिनी कमलं कलशो वा ज्ञातश्चेत्सामान्यतो नानन्दकरः । तस्माचन्द्रिकालक्षणमपि प्राग्वदेव ज्ञेयमिति दिक् । पक्षे निरुक्तस्वकीया नायिकाप्युक्तनायककृतामेवं मजीरवरकाचकङ्कणालंकारस्तुतिमाकर्ण्य महासतीत्वेन सौभाग्यमूलीभूतकाचकङ्क. णान्येव मुख्यालंकारत्वेन वर्णनीयानि नतु मणिमञ्जीरप्रभृत्यलंकारान्तरं किमपीति व्यनक्ति-यदभाव इति । अत्राप्यये मत्प्राणेश्वरचरणा इति संबुद्ध्यध्याहारः प्राग्वदेव प्रकृतस्तुतावपि यथार्थगुणकथनपरः । एवंच यदभावे सति रतिकालि. कबन्धविशेषलीलावशायेषां करकाचकङ्कणानामभावे भङ्गे सतीत्यर्थः । रसादीति । रसः शृङ्गारः । आदिना भावादिः । तस्मादन्य इतरः । शाब्देति । तथाच तत्प्रयुक्तमणिताख्यशब्दजन्य एवानन्दो दंपतीभ्यां रोचते नतु प्रातस्तसंपादनपर्यन्तं कोऽप्यन्यः संगीतादिशब्दोऽपि रोचत इत्याशयः । अत्र लोके । पदेति । आदिना मार्गः गोप्याः कुचादिखावयवाश्च । विषयसप्तमीयम् । सुदृग्भिः खपादादिनतदृष्टिभिः सतीभिरित्यर्थः । तत्वमेव तदलंकारत्वं विज्ञेयमिति योजना । एतेन पातिव्रत्यातिशयो द्योत्यते । एवं चोदाहरणमप्येतदेव॥५॥ एवमलंकारसामान्यलक्षणं संक्षिप्य तादृशलक्ष्यालंकारका-भूतानन्दसख एव तन्मूलीभूततत्सिद्धिः स्यादित्याशयेन कुड्यचित्रन्यायेन प्रथमं रसादिभिन्नशाब्दानन्दासंभवमाशङ्कय सोदाहरणं समाधत्ते-नचेति । कुत एवमिति चेत्तथानुभवादेवेति वदंस्तमेवोदाहरणव्याजेन व्यनक्ति-नीलमित्यर्धेन । अत्र नभ उपमेयम् । इन्द्रनीलकटाह उपमानम् । नीललं साधारणधर्मः । वदित्युपमावाचकः प्रत्ययविशेष इत्यर्थालंकारमूलकस्तथा नीलं नभो विभातीति नकारभकारानुप्रासाख्यशब्दालंकारमूलकश्च यः प्रकृतपद्यश्रवणोत्तरकालावच्छेदेन तत्तदधिकारिण्यानन्दः संपद्यते न तत्र मूलीभूतः कोऽपि रसादिःस्वारसिकः प्रतीयते। तथाऽ. यमानन्दस्तु निरुक्तशब्दैकजन्य इति नाप्यशाब्दः । तस्मादेतादृशानुभवशतवशादु. काशकोपन्यसनं साहसमात्रमेवेति भावः । पक्षे ननु रसायन्यः शब्दमात्रजन्यः स्यान्चेदानन्दस्तदानीं तद्धेतुभूतत्वेन काचकङ्कणानां सौभाग्यमूलीभूतानां मुख्यालंकारत्वेन स्तुतिरपि स्यात्तद्वनिस्तु रसायुद्दीपनविभाव इति तजन्यानन्दोऽपि त. दन्तःपात्येवेति पत्युराशयमाशङ्कय कान्ता समाधत्ते-नचेति । तत्र हेतुं द्योतयति-नीलमित्यादिना । मत्करकङ्कणरणनश्रवणेन ममाप्यानन्ददर्शनात्तत्र च