________________
साहित्यसारम् ।
[ उत्तरार्धे
•
कारेषूक्तगुणधर्मराहित्यं दर्शयितुं अलंकारखरूपमाह – उपकुर्वन्तीति । तं रसं जातुचित् कदाचित् तेन अलंकारा रसंविना अवतिष्ठन्ते अवश्यं च नोपकुर्वन्ति नवा रसे साक्षादिति किंत्वङ्गद्वारणेति गुणेभ्यो विलक्षणा एवेति ध्येयमिति । यत्तु प्रकृतकारिकामेव व्याकुर्वता काव्यप्रदीपकृताप्येवमेव लक्षणत्रयमलंकाराणामुक्तम् । तथाच रसोपकारकत्वे सति तदवृत्तित्वं, तथात्वेसति रसव्यभिचारित्वं अनियमेन रसोपकारकत्वं चेति । सामान्यलक्ष णत्रयमलंकाराणामित्युक्तं, रसोपकारकत्वं शब्दार्थान्यतरोपकारद्वारेण विवक्षितं, अङ्गद्वारेणेत्युक्तेः । तेन चन्द्रोदयादावुद्दीपकेनातिप्रसङ्ग इतीति वैद्यनाथेन प्रभायां व्याख्यातम् । आद्ययोः सत्यन्तं पदादिदोषातिव्याप्तिवारणायेति बोध्यमित्युद्योतकृता नागोजि भट्टेनापि व्याख्यातं तदपि तादृशमेव । चन्द्रोदयादेरुद्दीपन विभावस्यापि स्मृतिजननद्वारा प्रेयसीवदनरूपार्थोपकारकत्वेनैव रसोपकारकत्वात् । आलम्बनविभावीभूतायामपि प्रेयस्यामा लिङ्गनाद्यर्थोपकारकत्वद्वारैव रसोपकारकत्वात् । सत्यन्तद्वयेनाद्यलक्षणद्वयस्य पदादिदोषातिव्याप्तिवारणेऽपि प्रागुक्तातिव्याप्तितादवस्थ्याच्च । वस्तुतस्तु रसोपकारकत्वमेवालंकाराणां दुर्भणम् । अर्थाद्युपकारद्वारा तदङ्गीकारे त्वर्थादेरेव तथात्वस्य साक्षात्संभवेन तेषां कुलालपित्रादिवदन्यथासिद्धत्वात् । शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम्' इत्यादिना प्रागेव प्रत्युत पूर्वाचार्यस्वारस्यतस्तेषां तदपकारकत्वोक्तेश्च तस्मात्प्रागुक्तस्वरूपलक्षणपरत्वमेव काव्यप्रकाशकारिकादेरिति पर्यवस्यति । अन्यथा गत्यन्तराभावात् । एतेन ' शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिव - शेन वा । हारादिवदलंकारः संनिवेशो मनोहरः' इति चन्द्रालोकस्तथा 'शब्दार्थयोरस्थिरा ये धर्माः शोभाविधायिनः । रसादीनुपकुर्वन्तोऽलंकारास्तेङ्गदादिवत्' इति साहित्यदर्पणमपि च व्याख्यातम् । ननु भवत्वेवं प्राचां ग्रन्थे व्यवस्था तथापि नवीनेन कुवलयानन्दव्याख्यात्रा ह्यलंकारचन्द्रिकाकृता तु परिष्कृत्यैवालंकारसामान्यलक्षणं कृतम् । तथाहि । अलंकारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रासादिविशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्वयः । शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायां विषयितयाऽवच्छेदकत्वेन तद्विशेषणीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाद्यलंकारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानमिति । अत्रोच्यते - इहापि प्राग्वदेव ज्ञाते कामिन्यादित्रितयेऽपि प्रत्येकमप्यतिप्रसङ्गः । तथाहि । रसादिभिन्नत्वमत्र व्यङ्गये रसोऽपि यत्र रसान्तरस्याङ्गं भवति तत्प्रभृति रसवदाद्यलंकारचतुष्टयभि: न्नत्वमेव तादृशं यद्व्यङ्गयं व्यङ्गयोपमादिलक्षणं तद्भिन्नत्वे सतीति सत्यन्तार्थः समंतः । तेनोक्तकामिन्यादौ व्यङ्गचरसकरणीभूतरसाख्यरसवदाद्यलंकारभिन्नत्वं व्यङ्गयोपमाद्यलंकारभिन्नत्वमपि प्रसिद्धमेव । नहि कामिनी कमलं कलशो वा
३६०