________________
३५९
कौस्तुभरत्रम् ८] सरसामोदव्याख्यासहितम् ।
यदभावे रसाधन्यः शाब्दानन्दो न जायते ।
तत्त्वमेवात्र विज्ञेयं तत्सुदृग्भिः पदादिषु ॥५॥ एवमपि निरुक्तलक्षणे शब्दविशेषेत्यत्र विशेषपदवैयर्थ्यावरसादन्वयघटितस्य तस्योक्तत्वेनेदानीं व्यतिरेकघटितं तल्लक्षणं संक्षिपति-यदभाव इति । यदभावे सतीत्यर्थः । रसादीति । रसभावतदुभयाभासभावप्रतियोगिकशान्त्युदयसंधिशाबल्याष्टकप्रतियोगिकान्योन्याभावावच्छिन्न इति यावत् । शाब्देति । शब्दैककरण इत्यर्थः । एतादृगानन्दो नैव जायते तत्त्वमेव तादृक्पदार्थत्वमेव । पदेति। पदवाक्यप्रमाणविषय इत्येतत् सुदृग्भिः पदवाक्यप्रमाणपारगैः अत्र साहित्यशास्त्रे तदलंकारत्वं विज्ञेयं निश्चयमित्यन्वयः । एवंच यदभावे सति रसायष्टकेतरशाब्दानन्दानुदयस्तत्त्वमलंकारत्वमिति तत्सामान्यलक्षणं पर्यवसितं भवतीति भावः। अत्र तावदुपमानुप्रासाद्यभाव एव रसायष्टकभिन्नः शब्दमात्रकरणक आनन्दो नोदेतीति तत्त्वमलंकारत्वमिति लक्षणसमन्वयः । ननु वीणानिकाणादीनामुद्दीपनविभावत्वेन तजन्यानन्दस्य रसाद्यष्टकान्तःपातित्वेन तत्रातिव्याप्तिनिरासेऽपि सर्वत्र सुप्रसिद्धनमस्कारकुशलप्रश्नादिब्राह्मणसंव्यवहारस्य प्रायःशब्दैकरूपत्वेन तज्जन्यानन्दस्य रसादिभिन्नत्वेऽपि प्रेमैकनिमित्तकत्वेनालंकारनिमित्तकखाभावात्तन्मूलकप्रेम्ण्यतिव्याप्तिरिति चेन । 'रतिर्देवादिविषया व्यभिचारी तथाञ्चितः। भावः प्रोक्तः' इति काव्यप्रकाशकारिकोक्तेरादिपदगृहीतत्वेन प्रकृतव्यवहारकर्मीभूतब्राह्मणादिविषयकरतेरपि भावत्वेन रसायन्तःपातित्वात्तस्याश्चेह भवतैव प्रेमत्वेन कण्ठत एवोक्तानन्दनिमित्तकारणतया प्रकटितत्वात्तनिमित्तकनिरुक्तशाब्दानन्दस्यापि रसादिभिन्नत्वाभावाच । तस्मादिदं लक्षणं वलक्षमेवेति वीक्षणीयं प्रेक्षावद्भिरेव निराकाङ्करपक्षपातेन । काव्यप्रकाशकारिकायां तु–'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः' इत्युक्तम्। विवृतं चेदं जयरामभट्टाचार्येण । तथाच रसोपकारकत्वे सति रसावृत्तित्वम् । तथात्वे सति रसव्यभिचारित्वम् । अनियमेन रसोपकारकत्वं चेत्यलंकारलक्षणं लब्धमिति । इदं लक्षणत्रयमपि क्रमेण कामिन्यां कमले कलशे चातिव्याप्तम्, तथाहि 'सातु शृङ्गारस्यालम्बनविभावत्वेन तदुपकारिकापि 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः' इत्यप्युक्तकारिको. केर्गुणवत्तद्धर्मत्वाभावात्तदवृत्तिरिति प्रसिद्धमेव । एवं कमलमप्युद्दीपनविभावत्वेन शृङ्गाररसोपकारकमपि वह्निर्यथा धूमाभाववत्ययःपिण्डे विद्यमान इति धूमोपकारकोऽपि धूमव्यभिचारीत्युच्यते तद्वत्कमलमपि रसाभाववति · जडे जलादौ वर्तत इति रसव्यभिचार्येव । तद्वत्कलशोऽपि कुचस्मारकत्वेन कदाचिद्रसोपकारक इत्यनियमेनैव तत्रापि तदुपकारकत्वं निर्विवादमेव । तथाचेदमखिलमपि खरूपलक्षणपरमेव नत्वसाधारणधर्मलक्षणलक्षणपरमिति सर्वमवदातम् । अतएव सारबोधिनीकारस्त्विमां कारिकामलकारस्वरूपपरत्वेनैवावतार्य विवृतवान् । तद्यथा अलं.