________________
३५८
साहित्यसारम् । . [उत्तरार्षे त्तरं चमत्कारसत्वेनालंकारस्य तत्र सलमात्रापेक्षणाच । 'जगद्विलक्षणेक्षणे क्षणेक्षणे मदीयकं कदम्बकोरकद्वयं न गोपि गोपनं कुरु । इदं निगद्य राधिका पयोधराम्बरं हरन् कलिन्दनन्दिनीतटे ननन्द नन्दनन्दनः' इत्यादिप्राचीनाचार्यविरचितपद्ये मन्दाधिकारिणः शब्दालंकारमात्रेणैव मध्यमस्य तेन सहार्थालंकारेणापि तथोत्तमस्य गौणव्यङ्गयेन ताभ्यां सह शृङ्गाररसेनापि चाभिनवचमत्कारदर्शनेन मूले नियतविशिष्टाधिकार्यग्रहणमिति ध्येयम् । सामान्यतस्तद्रहणं तु श्रवणपदेनैव सूचितमिति न काप्यनुपपत्तिः । वस्तुतस्तु विशेषपदव्यावर्त्यस्य वीणाकाणादेः शृङ्गारोद्दीपनविभावत्वेन पश्वाद्यनुकरणशब्दादेहासोद्दीपनविभावत्वेन च रसान्तीवौचित्येन तथा रसादीत्यादिपदसंगृहीतभावत्वेनैव व्युदासादसादिभिन्नानन्दजनकः शब्दो ह्यलंकारमन्तरा जगति नैवास्तीति यद्यपि विशेषपदं व्यर्थमेवाथापि श्लेषण वक्ष्यमाणार्थान्तरोपयोगादेव तत्संग्रह इति तत्त्वम् । उत्तरत्वमत्र त्रिचतुःक्षणादिसाधारणाधिकव्यवधानवैधुर्यमेव बोध्यम् । नतु सर्वथा व्यवधानवैधुर्यम् । श्रवणशब्दितशब्दविशेषविषयकज्ञानमात्रस्य पदज्ञानत्वेन करणरूपस्य 'पदज्ञानककरणात्पदार्थस्मृतिवर्त्मना । शक्तिधीसहकारेण शाब्दबोधः प्रजायते' इति प्रारिद्वतीयरत्नोक्तशाब्दबोधप्रक्रिययैव तत्संपादकत्वेन मध्ये स्मृत्याद्यर्थ त्रिचतुःक्षणव्यवधानस्यावश्यकत्वात् । चमत्कारेति । विजातीयानन्दजनकत्वमित्यर्थः । वैजात्यं चानन्दे रसादिप्रतियोगिकान्योन्याभावावच्छिन्नशाब्दानन्दत्वमेवेत्यधस्तादेवोक्तम् । एतादृशत्वं यत्तदेवात्र साहित्यशास्त्रे अलंकारत्वमलंकारसामान्यलक्षणमस्तीति शेषेणान्वयः । तथाच रसादिभिन्नत्वे सति शब्दैककरणकज्ञानकरणकानन्दं प्रत्यदृष्टादिभिन्ननिमित्तकारणत्वमलंकारत्वमिति तत्सामान्यलक्षणं फलितमियाकूतम् । ननु शब्दैककरणकज्ञानकरणकेत्यत्रापि प्रागुक्तशाब्दबोधप्रक्रियारीत्या त्रिचतुःक्षणादिप्रवेशो लक्षणेऽत्यावश्यक एवेति चेत्सत्यम् । यद्यप्यर्थालंकारे तदावश्यकतैव तथापि शब्दालंकारे तु शब्दश्रवणाव्यवहितोत्तरत्वस्याप्युक्तानन्दे संभवादुभयसाधारण्येनैव प्रकृतलक्षणस्य विवक्षितत्वेन तदनुक्तेरेवौचित्यात् । अत्र हि निरुक्तज्ञानस्य विशिष्टार्थादिविषयत्वेनैवोक्तानन्दजनकत्वात्तद्विशेषणतावच्छेदकत्वेनैव प्रकृतालंकारत्वसिद्धिरिति दिक् । पक्षे पूर्वपद्ये दृष्टान्तीकृतखकी. याख्यानायिकयासुरतसंपादनाभिप्रायेण पद्भ्यां सकाशान्मणिमञ्जीरनिष्काशने क्रियमाणे तच्चातुर्यातिशयवशादतिसंमुदितस्तत्पत्याख्यनायकस्तन्मजीरौ तनिष्काशनार्थे व्यापृतकरकाचकङ्कणान्यपि सुरतप्रदानमङ्गलध्वनिजनकत्वेन सकलालंकारवरतया स्तुवंस्तस्या एव स्तुतिं व्यनक्ति-रसादीति । अये प्रिये इति संबुद्धिरार्थिक्येव । तथाच प्रकृतवाक्यप्रयोगे स्तुत्यादिप्रयोजनाभावो व्यज्यते । तावता चोक्तस्तुतौ गुणवादलक्षणार्थवादत्वाभावेन यथार्थगुणकथनत्वान्नायिकातिपरितोषलाभः । अत्र रसः संभोगशृङ्गार एव । तत्प्रकरणत्वात् । एवमादिना तद्भावादिरेव शब्देति विशेषग्रहणं कङ्कणध्वनिसंभिन्नमजीरध्वनिग्रहणार्थम् ॥ ४ ॥