SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । यञ्जनं द्विधेष्टान्यपरशक्यत्व एष्यति । शब्दार्थशक्तिमूलत्वभेदादित्यवधार्यताम् ॥ ३॥ रसादिभिन्नत्वे शब्दविशेषश्रवणोत्तरम् । चमत्कारकरत्वं यदलंकारत्वमत्र तत् ॥ ४ ॥ कौस्तुभरत्नम् ] ८ ३५७ तन्निष्काशनजन्यो यस्तदीयध्वनिविशेषः स तु सुरतानुकूल्यसूचनक्रमपूर्वक इति तु प्रसिद्धमेवेति भावः । उप मञ्चकसमीपं कुर्वन्तीत्यन्वयः ॥ २ ॥ यद्यञ्जनमिति । इष्टेति । विवक्षितान्यपरवाच्यत्वे इत्यर्थः । एष्यति स्वसंमतत्वेन काव्य आगमिष्यति सतीति यावत् । एवंच विवक्षितान्यपरवाच्यत्वं यदि काव्य आयास्यति चेत्तव शब्दार्थशक्तिमूलत्वभेदाद्विधा यच्छब्दवाच्यप्रकृतार्थालंकारसूचनं स्यादित्यवधार्यतां निर्णीयतामिति संबन्धः । पक्षे यद्यञ्जनं नूपुर निष्काशनक्रियया निरुक्तसुरतानुकूल्यसूचनमित्यर्थः । इष्टान्येति । इष्टाभ्यां अन्यः दंपतीभ्यामितरः परः शत्रुः शक्यः योग्यो यस्मिंस्तत्वे यस्मिन्काले सखीजनोऽपि रिपुसाम्यतार्हो भवति तादृशकालत्व इति यावत् । एष्यति आगमिष्यति सतीत्यर्थः । शब्देति । निरुक्तरीत्या पादपद्माभ्यां मणिमञ्जीर निष्काशनजन्यमञ्जुल सिञ्जानसामर्थ्येन तादृक्चेटालक्षणपदार्थसामर्थ्येन लिङ्गेन च तर्कितत्वभिदा द्विधा भवति तानर्थचित्रानलंकारानहं दर्शयामीत्यवधार्यतामिति योजना । इह पद्यत्रयेsपि प्रौढा स्वीयैव नायिका । संभोगशृङ्गार एव रसः । श्लेषादयोऽलंकाराः ॥ ३ ॥ नन्वेतावतापि प्रकृतग्रन्थे प्रागुपन्यस्तत्वेनालंकारवस्तुकथनमात्रं संपन्नं नैतावतातल्लक्षणजिज्ञासानिरास इत्यतस्तल्लक्षणं संक्षिपति प्राग्वदेव श्लेषेणरसादीति । आदिना भावादिः । ते च पूर्व चतुर्थरत्ने रसभावरसाभासभावाभासभावोदय भावशान्तिभावसंधिभावशबलताभेदादष्टविधा लक्षक्रमव्यङ्गयाख्यरसध्वनित्वेन प्रपञ्चिता एव । एवंच न तत्रातिव्याप्तिः । शब्देति । विशेषपदेनात्र वीणा नुरणनश्रवणोत्तरमपि चमत्कारस्यानुभूतत्वात्तद्युदासः । स च विशेषोऽत्र श्रुत्यादिगतोऽधिकार्यवच्छेदेनानन्दजनकोऽर्थाद्यनुपूर्व्यात्मैव ‘तस्य मध्ये वह्निशिखा आणीयोर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्था विद्युल्लेखेव भाखरा । नीवारशुकवत्तन्वी' इत्यादितैत्तिरीयोपनिषदि 'तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरमेवमेवायं प्राज्ञेनात्मना संपरिष्वको न बाह्यं किंचन वेद नान्तरम्' इति बृहदारण्यकोपनिषदि च । 'यथा नदीनां बहवो - Sम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वाण्यभिविज्वलन्ति' इत्यादिभगवद्गीताखपि सुप्रसिद्ध एव । न चोक्तानन्द सिद्धौ तद्धेतुभूतशब्द विशेषान्तर्गतालंकार सिद्धिस्तत्सिद्धौ च तत्सिद्धिरिति परस्पराश्रय इति वाच्यम् । निरुक्तशब्दश्रवणोत्तरमधिकार्यवच्छेदेनानन्दानुभवस्यालंकार सिद्ध्यनपेक्षत्वात् । अर्थालंकारादिज्ञानाभावेऽपि निरुक्तानुपूर्व्यात्मकशब्दविशेषश्रावणो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy