SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५६ साहित्यसारम् । [ उत्तरार्धे येऽलंकारा गुणेषु प्राग्गुम्फिताश्चित्रता च यैः। उपकुर्वन्ति ये नजं लक्ष्यव्यङ्ग्यक्रमं ध्वनिम् ॥ २॥ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमोनमः' इति श्रुतेस्तल्लीलाविग्रहो योऽयमुमार्धविग्रहः शिवस्तस्य यदध तस्यान्तः परिसमाप्तिर्यत्र तस्मिन् । मायाप्रधानगौरीभाग एवेत्यर्थः । गुणान्सत्वादीन् प्रायः लीलयैव अनायासेनैव क्वचित्तु चरमप्रमा किं मायिकी नवेत्यादिसंशये शास्त्रगुर्वादिप्रतीत्यर्थमायासेनापीति प्रायःपदाशयः । प्रकटीकृत्योपपाद्य । एवंच ब्रह्मणो निर्गुणत्वमेवोपपायेत्यार्थिकम् । अथैति । मयूरव्यंसकादिसमासाश्रयणेन चित्रायश्चित्रमिव मिथ्यामनोरममिति श्रुतेरत्यद्भुताकाशादिपदार्थानित्यर्थः । अलंकाराविचारे सति खमिथ्यात्वेनालं स्वविषयकेच्छावारणं मिथ्यात्वेन निर्णीतमृगजलादिवत्कारयन्तीति तादृशानित्यर्थः । दर्शयामि सतीर्थ्यान्प्रति समुपपादयामि । पक्षे मुमुक्षून समुपदिशामीति संबन्धः । एतेन परोक्षादिब्रह्मानुसंधानमङ्गलं सिद्धम् ॥ १॥ एवमेतद्रनप्रतिपाद्य मर्थ प्रतिज्ञाय के तेऽर्थचित्रालंकारा इत्याशकायां तत्सामान्यकथनं 'धर्मा रसा लक्षणानि रीत्यलंकृतिवृत्तयः' इति, तथा 'रसालंकारमुख्यत्वभेदेनेदं भवेद्विधा । सरसाख्यं च चित्राख्यं खरम्भोरूशरीरवत्' इति च प्रथमरत्ने कृतमपि विस्मरणशीलं शिष्यं प्रति संस्मार्य चतुर्थरत्ने प्राक् 'उत्तमोत्तमकाव्याख्यो यो ध्वनिः प्रागुदाहृतः । असंख्यातोऽप्यसौ शक्तिलक्षणामूलतो द्विधा । यत्रान्यपरमेवेष्टं वाच्यं स प्रथमो मतः । अविवक्षितवाच्याख्यो द्वितीयोऽपि विपश्चिताम् । रसो वस्त्वप्यलंकार इति भेदात्रिधादिमः । तत्र लक्ष्यक्रमव्यङ्गयो रससंज्ञो ध्वनिर्भवेत् । वस्त्वलंकारसंज्ञौ तु लक्ष्यव्यङ्गयक्रमौ मतौ । शब्दार्थशक्तिमूलत्वभेदात्तौ द्विविधौ पुनः । द्विधान्योऽर्थान्तरे वाच्य. संक्रमाच्च तिरस्कृतेः । इत्येते सप्त सामान्याद्धृनिभेदाः खरा इव' इति ध्वन्याख्यो. त्तमोत्तमकाव्यस्य भेदसप्तकान्तर्गतं लक्ष्यव्यङ्ग्यक्रमत्वे सति शब्दार्थशक्तिभूलत्व. भेदेन द्विविधं विवक्षितान्यपरवाच्यसंज्ञकं अलंकारध्वनि प्रत्युपकारका ह्युपमादयस्ते प्रसिद्धा एवेति समाधत्ते-येऽलंकारा इत्यादि द्वाभ्याम् । पक्षे प्रेक्षकशालिनी स्वकामिनी यथार्थचित्रानलंकारान्दर्शयतीत्युक्तं पूर्वपये तत्र के तेऽलंकारा इसपेक्षायां तान्संक्षिपति-य इत्यादिना । गुणेषु क्षौमसूक्ष्मसूत्रेषु गुम्फिताः संग्रथिताः प्रसिद्धा एव हीरहारादयः पद्मरागमरकतगारुत्मतादिविशिटस्थूलमौक्तिकनिचयत्वेन वैचित्र्यप्रयोजका इत्यर्थः । तथा उपकुर्वन्तीति ये मणिमञ्जीरादयः नजं खीयं ध्वनि शिञ्जिताख्यं मृदुमधुरखनम् । लक्ष्यति । क्रियाविशेषणमिदम् । लक्ष्यस्तर्कणयोग्यः व्यङ्गयस्य सुरतानुकूल्यस्य क्रमो यथा स्यात्तथेत्यर्थः । सुरतसमये मञ्जीरनिष्काशनं स्वमन्दिरोपकण्ठवर्तिजनानां तच्छब्दश्रवणशङ्कया लज्जावतीनां प्रसिद्धमेव । तथा गीतगोविन्देऽप्युक्तम्-'मुखरमधीरं त्यज मजीरं रिपुमिव केलिसुलोलम्' इति । एवंच तदानीं चरणाभ्यां
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy