________________
साहित्यसारम् ।
[ पूर्वार्धे गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । हरचापसंज्ञकमिदं गुणललितं सप्तमं रत्नं ॥२०९॥ धन्वन्तरावतलक्ष्मीकम्ब्वश्वविषहरेष्वासैः।
रनैः सप्तभिरासीत्पूर्णःसाहित्यसारपूर्वाधः ॥२१०॥ इति श्रीसाहित्यसारे हरचापाख्यं सप्तमं गुणरत्नं संपूर्णम् !
द्राक्षापाकादिपाकत्रयं कण्ठाभरणसारीभूतं शाब्दगुणान्तर्गतं गाम्भीर्यादित्रयमार्थगुणान्तर्गतं श्लेषादिदशकं चेति मिलिवाऽष्टादशलक्षणीयमिति संक्षेपः ।। २०८ ॥ प्रकरणमुपसंहरति-हरेति । पक्षे गुणो 'मौर्वी ज्या सिजिनी गुणः' इत्यमरात्प्रत्यञ्चा ॥ २०९ ।। अत्रैव पूर्वार्ध परिच्छिनत्ति-धन्वन्तरीति ॥ २१० ॥
इतिसरसामोदे गुणरत्नविवरणं संपूर्ण ॥ ७ ॥
समाप्त पूर्वार्धम् ।