SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । क्लिष्टत्वे दोषराहित्ये प्रसादोऽन्तर्भवत्यसौ । अर्थव्यक्तिः स्वभावोक्तावोजः कान्ती रसध्वनौ ॥ २०४ ॥ गाम्भीर्यमप्रतीतापवाद एवाथ विस्तरः । अत्युक्त्यलंकृतौ भाविकं तु गूढोत्तरे तथा ॥ २०५ ॥ गती रसध्वनौ रीतिः स्वभावोक्तावलंकृतौ । प्रौढिस्तु काव्यलिङ्गे स्यात्संक्षेपोऽक्षरसंहतिः ॥ २०६॥ शाब्देषु तेषु गाम्भीर्यं विस्तरो रीतिरेव च । आर्थेष्वपि तथा श्लेषः संमता सुकुमारता ॥ २०७ ॥ माधुर्यौदारते प्रेयः समाधिः सौक्ष्म्यमेव च । संमितत्वं तथोक्तिश्च लक्षणानि मतानि मे ॥ २०८ ॥ गुणरत्नम् ७ ] ३५३ दुदात्तत्वमिष्यते' इति । तस्य 'उदात्तमृद्धिसहितं श्लाघ्यं चान्योपसर्जनम्' इति तन्मात्रत्वात्। गर्वेति । 'रूढाहंकारमौर्जित्यम्' इति तस्य तत्वात् । निन्द्येति । 'अदारुणार्थपर्यायो दारुणेषु सुशब्दता' इति तस्यापि तत्वाच्च ॥ २०३ ॥ क्लिष्टत्वेति । 'यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते' इति तस्य क्लिष्टत्वदोषाभावमात्ररूपत्वात् । असौ प्रसादः क्लिष्टत्वदोष राहित्येऽन्तर्भवतीति योजना । एवमग्रेऽपि । अर्थव्यक्तिरिति । 'अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते ' इति तस्य ‘स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्' इति तत्वानतिरेकात् । ओजःकान्ती इति । 'ओजः स्वाध्यवसायस्य विशेषोऽर्थेषु यो भवेत्' इति । 'कान्तिर्दीसरसत्वं स्यात्' इतिच तस्य तस्य तत्वानपायात् ॥ २०४ ॥ गाम्भीर्यमिति । 'शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते' इति तस्य अप्रतीतापवाद एवान्तर्भावात् । विस्तर इति । 'विस्तरोऽर्थविकाशः स्यात्' इति तस्य ' अत्युक्तिरद्भुतातथ्यशौयौदार्यादिवर्णनम्' इति तत्त्वात् । भाविकं त्विति । 'साभिप्रायोक्तिविन्यासो भाविकत्वं निगद्यते' इति तस्य 'किंचिदाकूतसहितं स्याद्गुढोत्तरमुत्तरम्' इति तत्वात् ॥ २०५ ॥ गतिरिति । 'गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु ' इति तस्य तथावात् । रीतिरिति । 'रीतिः सा यस्त्विद्दार्थानामुत्पत्त्यादिक्रियाक्रमः' इति तस्यापि तत्वात् । प्रौढिस्त्विति । 'विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता' इति । तस्य 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्' इति तन्मात्रत्वात् । संक्षेप इति । 'संक्षेपस्तस्य संवृतिः' इति तस्यापि तत्वाच्च ॥ २०६ ॥ शाब्देष्विति । तेषु कण्ठाभरणगुणेषु - आर्थेष्वपीति । एवं चार्थास्तदीयाः श्लेषादयो न प्राच्यश्लेषादिना गतार्था इति रहस्यम् ॥ २०७॥ लक्षणानीति । निरुक्तकाव्यगुणत्वेन प्राक्प्रतिज्ञातलक्षणानीत्यर्थः । एवंच चन्द्रालोकसारीभूतं अक्षरसंहतिः शोभा चेति द्वयं तथा प्रतापरुद्रीयादिसारीभूतं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy