SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५२ साहित्यसारम् । तेषां पूर्ववदेवेष्टोऽस्त्यन्तर्भावो नयान्मम । तत्र शाब्देषु तेषूदात्तत्वं परिकरे तथा ॥ १९९ ॥ और्जित्यमोजसि प्रेयोलक्षणेऽथ सुशब्दता । च्युतसंस्कृतिदोषस्याभावेऽन्तर्भवति ध्रुवम् ॥ २०० ॥ सौक्ष्म्यं तु शब्दालंकारे संक्षेपोऽक्षरसंहतौ । संमितत्वं त्वनधिकपदे तद्वत्तु भाविकम् ॥ २०१ ॥ अननौचित्य एवैवं क्रमाभङ्गे गतिस्तथा । उक्तिर्वक्रोक्त्यलंकारे प्रोढिः प्रौढोक्क्यलंकृतौ ॥ २०२ ॥ आर्थेषूदात्ततोदात्तालंकारे गर्वगध्वनौ । और्जित्यं निन्द्यशब्दात्मदोषाभावे सुशब्दता ॥ २०३ ॥ [ पूर्वार्धे श्लेषादितः पूर्वोक्तान्तर्भावाज्जरत्तरसंमतात् 'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः' इत्युक्तगुणदशकादित्यर्थः । शिष्टा उर्वरिताः लक्षणेभ्यः शाब्देषु तेष्विति वक्ष्यमाणेभ्योऽत्र लक्षणत्वेन संमतेभ्य इति यावत् ॥ १९८ ॥ नयादिति । लक्षणैक्यादियुक्तिविशेषादित्यर्थः । उदात्तत्वमिति । 'श्लाध्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता' इति तल्लक्षणं 'अलंकारः परिकरः साभिप्राये विशेषणे' इति तल्लक्षणे श्लाध्यत्वस्य प्रकृते साभिप्रायतामात्रौचित्यादतिप्रसक्तमिति परिकरे उदात्तत्वं ध्रुवं अन्तर्भवतीत्यपकृष्या - नुकृष्य तत्र तत्र सर्वत्रान्वयः ॥ १९९ ॥ और्जित्यमिति । 'और्जित्यं गाढ - बन्धता' इति तल्लक्षणस्य ओजसि तद्यञ्जकगौड्यादौ स्पष्टत्वात् । प्रेय इति । ‘प्रेयः 'प्रियतराख्यानं चाटूक्तौ यद्विधीयते' इति तल्लक्षणस्य 'प्रायः सहृदयखान्तकर्षकं प्रेय उच्यते' इत्यार्थिकस्य तस्य लक्षणत्वेन मदुक्तस्य लक्षणादनतिरेकात् । सुशब्दतेति 'व्युत्पत्तिः सुप्तिङां या तु प्रोच्यते सा सुशब्दता' इति तस्य च्युतसंस्कृत्यभावमात्रत्वाच्च ॥ २०० ॥ सौक्ष्म्यं त्विति । 'अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते' इति तस्य नवमरने वक्ष्यमाणशब्दालंकार विशेषत्वात् । संक्षेप इति । 'समासेनाभिधानं यत्स संक्षेप उदाहृतः' इति तस्य 'शब्दाल्पत्वेऽपि भूर्यर्थरचनाक्षरसंहतिः' इति तन्मात्रत्वात् । संमितत्वमिति । 'यावदर्थपदत्वं च संमितत्वमुदाहृतम्' इति तस्याधिकपदाभावत्वाद्भाविकमिति ॥ २०१ ॥ 'भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम्' इति तस्यानौचित्याभावत्वात् । क्रमेति । 'गतिर्नाम क्रमो यत्स्यादिहारोहावरोहयो:' इति तस्य क्रमभङ्गाभावत्वात् । उक्तिरिति । 'विशिष्टा भणितिर्या स्यादुक्तिं तां कवयो विदुः ' इति तस्य तत्वात् । प्रौढिरिति । उक्तेः प्रौढ : परीपाकः प्रोच्यते प्रौढिसंज्ञा' इति तस्यापि तत्वात् ॥ २०२ ॥ आर्थेष्विति । 'आशयस्य य उत्कर्षस्त
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy