SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । उक्तिर्युक्तिवशेनार्थः स्विष्टश्चेत्पुष्टतामियात् । दृष्टः कुत्रापि संपूर्णो माधवो राधया विना ॥ १९६ ॥ क्रमवद्विषमार्थत्वशून्यत्वं समता मता । हेमन्तेऽहो वसन्ते ते बदराम्रोपमौ कुचौ ॥ १९७ ॥ ये चतुर्विंशतिः शाब्दा आर्थाश्चाभरणे गुणाः । तत्र श्लेषादितः शिष्टा लक्षणेभ्यश्च ये पुनः ॥ १९८ ॥ गुणरत्नम् ७ ] ३५१. शैलदुहितुर्वको नखाङ्कस्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः । संवादः प्रणवेन यस्य दलता कायैकतायां तयोरूर्ध्वद्वारविचिन्तनेन च हृदि ध्यातुः स्वरूपेण च' इति ॥ १९५ ॥ उक्ति लक्षयति - उक्तिरिति । तामुदाहरतिदृष्ट इति । इदं गोप्यन्तरसंभोगं संपाद्य राधामन्दिरमागतं श्रीकृष्णं प्रेक्ष्य सख्यन्तरं प्रति तत्परिहाससूचकं तत्सहचरीवचः । पक्षे वैशाखो माधव इति राधाविशाखेति चामरान्माधवाभिधवैशाखमासस्य राधाभिधविशाखा नक्षत्रयोगे जायमान एव ज्योतिःशास्त्रे लोके च पूर्णमासीदर्शनात्तद्याप्तिघटितानुमित्यात्मकयुक्त्युपन्यासेन यद्यप्ययं गोपीसहस्रसंभोगारम्भदम्भोऽपि मत्सखीं राधिकामनाखाद्य वनेऽपि तृप्तिभाग्भूयात्किमतस्तच्चरणार्चनार्थमेव भूयः श्रीकृष्णोऽभ्युपैतीति तद्विनोदलक्षणः खखिष्टार्थः पूर्वोक्तराधासख्या सम्यक् साधित इति लक्षणसंगतिः । यथावा तत्रैव - ' त्वमेवं सौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः । अपि द्वन्द्वं दिष्टया तदिति सुभगे संवदति वामतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया' इति ॥ १९६ ॥ समतां लक्षयति — क्रमवदिति । तदुक्तं कण्ठाभरणे - 'अवैषम्यं क्रमवतां समत्वमिति कीर्तितम्' इति । तामुदाहरति-- हेमन्त इति । इदमपि स्वकीयां मुग्धां प्रति परिहासवचः । अहो इत्याश्चर्ये, हे प्रिये, ते कुचौ हेमन्ते तथा वसन्ते च क्रमात् । बदरेति ऋतुद्वय एव बदरादिपाकदर्शनात् मासद्वयमध्य एव त्वं प्रकटयौवनासीत्याशयः । यथावा तत्रैव—‘अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्धरजःकणाग्र कपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता' इति । तदेवं प्रौढानुग्राहकमर्थद्वारा प्राधान्येन प्रसादध्वनकं लक्षणषट्रमित्यष्टादशलक्षणीति संक्षेपः ॥ १९७ ॥ ननु भवत्वेवं लक्षणादिव्यवस्था तथापि सरखतीकण्ठाभरणे तावत् 'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदात्तता ॥ ओजस्तथान्यदौर्जित्यं प्रेयानथ सुशब्दता । तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः। संक्षेपः संमितत्वं च भाविकत्वं गतिस्तथा । रीतिरुक्तिस्तथा प्रौढिः' इति चतुर्विंशतिसंख्याकाः शाब्दा आर्थाश्च गुणाः प्रपञ्चितास्तेषां क्वान्तर्भाव इत्याशङ्कय तद्यवस्थां कथयति — य इत्याद्येकादशभिः । तत्रेति शाब्देषु तेष्वित्यर्थः ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy