________________
३५०
साहित्यसारम् ।
शब्दाल्पत्वेऽपि भूर्यर्थरचनाक्षरसंहतिः । धनुस्तृड्यातुवाल्यब्धितत्पजिज्ञानकीपतिः ॥ १९३ ॥ उक्ति विनैव यच्छद्म समाधिः सोऽभिधीयते । सिंहावलोकनं चक्रे राधाकण्डूयनच्छलात् ॥ १९४ ॥ संमितत्वं तु यत्रार्थी समानतुलिताविव । दृक्तुलापात्रतो राधानुरागौ समतोलयत् ॥ १९५ ॥
[ पूर्वार्धे
1
-
स्तनौन्नत्यनतापि कुचोच्चत्वनीचापि ते तव भ्रुवौ कुतः न उन्नते, तत्र नम्रत्वसाधकं किं कुचकनकाचलयुगुलवदन्यद्गुरुतरमस्ति तद्वदेत्यन्वयः । एवं त्वयोर्ध्व निरीक्षणीयं रत्याद्यर्थमितः परमित्याशयः । अत्रोकार्थस्य गूढागूढत्वालक्षणसंगतिः । यथावा -'मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मज - रीति । अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः " इति ॥ १९२ ॥ अक्षरसंहतिं लक्षयति-शब्देति । तदुक्तं चन्द्रालोके – 'अल्पाक्षरा विचित्रार्था ख्यातिरक्षरसंहतिः । उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ' इति । तामुदाहरति — धनुरिति । इह हि सप्तकाण्डमहारामायणार्थोऽपि श्लोकार्धेन संग्रथितः । तद्यथा - 'धनुश्चन्द्रचूडचापम्' । एतेन बालकाण्डम् । तृद्रराज्य तृष्णा । तेनायोध्याकाण्डम् । यातूनि 'यातुरक्षसी' इत्यमरात् खरादिराक्षसाः । एवं चारण्यकाण्डम् । वालिस्तारेशः । अनेन किष्किन्धाकाण्डम् | अब्धिः समुद्रः । तथाच सुन्दरकाण्डम् । तत्पः प्रागुक्तयातुपती रावणश्च ताञ्जयतीति तथा । एतावता युद्धकाण्डम् | जानकीति । ततस्तूत्तरकाण्डम् । उपक्रमोपसंहारयोस्तन्मात्रत्वात् । अत्राद्भुत एव रसः सूच्यते ॥ १९३ ॥ समाधिं लक्षयति-— उक्तिमिति । नच ' पर्यायोक्तं तदप्याहुर्यद्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह' इति कुवलयानन्दमूलोतपर्यायोक्त विशेषेऽतिव्याप्तिः । तस्योतिपूर्वत्वात् । लक्षणे सामान्योक्तावपि रसमञ्जर्युक्तवाग्विदग्धत्वक्रियाविदग्धत्वभेदाभ्यामुदाहरणोक्तिपूर्वकच्छद्मदर्शनेन च तथाभिप्रायेोन्नयनाच्च । तामुदाहरतिसिंहेति ॥ १९४ ॥ संमितत्वं लक्षयति - संमितत्वं त्विति । तदुदाहरति- दृगिति । दृशौ स्वनेत्रे एव तुलापात्रे तदन्तर्वर्तिकृष्णतारकयोस्तुलापात्रयोश्च वर्तुलत्वकमठपृष्ठोन्नतत्व कृष्णवर्णविशेषशालिपृष्ठत्व गुणत्रयग्रथितत्वरूपसाधर्म्यचतुष्टययोगात्तुलाभाजने ताभ्यामित्यर्थः । अनुरागौ खाधिकरणकश्रीकृष्णविषयकतदधिकरणकख विषयकप्रेमाणाविति यावत् । समतोलयत् तोलयामासेति संबन्धः । पक्षे अनुशाणनिघर्षणाद्यनुसारेण रागः आरक्तिमावभासो ययोस्तौ पद्मरागाख्यरत्नविशेषावित्यर्थः । एतेन प्रकृते रत्नतुलापात्रसाम्यमेव राधानेत्रयोर्विवक्षितमिति द्योत्यते । इदमुदाहरणद्वयं राधासन्निधावेव स्वसुहृदं प्रति श्रीकृष्णस्य तद्विनोदवाक्यम् । यथावा कण्ठाभरणे - 'इन्दुर्मूर्ध्नि शिवस्य