________________
३४
गुणरत्नम् ७ ] सरसामोदव्याख्यासहितम् ।
उपक्रमादिषङ्गिड्डानुग्रहो रीतिरीरिता। भार्गवे भग्नभूभृद्भे भार्गे कः प्रतिभूर्भवेत् ॥ १९०॥ सहकाराभपाकाक्षरसंहतिसमाधयः। संमितत्वोक्तिसमताः प्रौढार्थेन प्रसादकाः॥१९१ ॥ सहकाराभपाकस्तु गूढागूढार्थगुम्फनम् । स्तनौन्नत्यनतापि त्वं भुवी ते नोन्नते कुतः ॥ १९२॥
दृश्यौ ये रेणू धूली ते एव भवत इति योजना । लक्ष्म्या हि पद्मात्वेन गुरुचर. णनखस्य पूर्वभागीयपाटलद्युत्यक्तधूलित्वं सरखत्यास्तु 'शरज्ज्योत्स्नाशुभ्राम्'इत्याद्यभियुक्तोक्तेः शुक्लत्वादपरभागीयसितद्युत्यक्तधूलित्वं चेति तस्य निरुपममेवैश्वर्यमित्याशयः । अत्रापि भक्तिवीर एव व्यज्यते । यथावा-'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसंनिधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी'इति ॥ १८९ ॥ रीतिं लक्षयति-उपक्रमादीति । तानि चाहुः प्राञ्चः –'उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये' इति । एतेषामुपक्रमादीनां षण्णां लिङ्गानां योऽनुग्रहः खविवक्षितार्थे आनुकूल्यं तत्प्रकृते रीतिपदार्थ इत्यर्थः । तदुदाहरति-भार्गव इति । इदं हि परशुरामस्य भगवतो वीर्यवाक्यम् । भार्गवे भृगुकुलोत्पन्ने परशुरामे विषये प्रतिभूः प्रतिपक्षः कः भवेत् । न कोपि भूयादित्यन्वयः । अत्र महर्षिवंशोपक्रमेण तस्य सर्वत्रानभिभाव्यवं यद्धृनितं तदेवोपसंहृतमित्युपक्रमोपसंहारयोरैकरूप्यमेकं लिङ्गम् । भग्नेति । भन्नाः विध्वंसिताः भूभृतां कार्तवीर्यादिभूपानां भाः प्रतापप्रभाः
येन स तथा तस्मिन्नित्यर्थः । तेन ह्येकविंशतिवारं निःक्षत्रा पृथ्वी कृतेत्युक्तार्थस्याभ्यासस्तथा लोकोत्तरत्वादपूर्वता तद्वपितृऋणानिमुक्त्यादिफलमेवं निरुक्तार्थ. स्यानेकेतिहासप्रसिद्धत्वादर्थवादश्चेति लिङ्गचतुष्टयं ह्येतेन द्योतितम् । एवमुपपत्याख्यं षष्ठं लिङ्गं ध्वनयस्तं विशिनष्टि-भार्ग इति । भर्गस्य शिवस्यायं भार्गस्तस्मिन्नित्यर्थः । शिवशिष्यत्वादेव सर्वमिदमुपपन्नमित्याकूतम् । यथावा'ग्राव्णा नासि गिरेः क्षता न पयसा नार्तासि न म्लायिता न श्वासैः फणिनोसि नत्वदनुगा नायासिता कापि न । खं वेश्म प्रतिगच्छतोरिति मुहुः श्रीशाणिोः सस्पृहं सा प्रश्नोत्तरयुग्मपतिरुभयोरत्यायता पातु वः' इति ॥ १९० ॥ अथार्थद्वारैव प्रौढाभिधप्रागुक्तवृत्त्यनुग्राहकं लक्षणषटूमुद्दिशति-सहकारेति । प्रौढेति । प्रौढाभिधवृत्त्युपकारी योऽर्थस्तेन द्वारेत्यर्थः । प्रसादकाः प्राधान्येन प्रसादाख्यस्य प्रागुक्तराजसरसासाधारणस्य व्यक्षिकाः सन्तीति संबन्धः ॥ १९१॥ तत्रोपक्रमानुसारेण प्रथमं सहकारपाकं लक्षयति-सहकाराभेति । तमुदाहरति-स्तनेति । इदं हि खकान्तां प्रति पत्युः परिहासवचः । हे प्रिये,त्वं