SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ૩૪૪ साहित्यसारम् । माधुर्यादौ च दोषाणामभावेऽलंकृतौ ध्वनौ । जरत्तरमता अन्तर्भूताः श्लेषादयो गुणाः ॥ १७१ ॥ श्लेषप्रसादोदारत्वौजः समाधय ओजसि । दोषाभावे तु समता कान्तिश्च सुकुमारता ॥ १७२ ॥ माधुर्य एव माधुर्यमर्थव्यक्तिः प्रसादके । प्रकाशादिमतेनान्तर्भूताः श्लेषादयो गिरः ॥ १७३ ॥ ओजःप्रसादसमतामाधुर्य सुकुमारताः । [ पूर्वार्ध उदारत्वं च दोषाणामभावेऽन्तर्भवन्त्यमी ॥ ९७४ ॥ काव्यरूपे समाधिश्च तथा कान्ती रसध्वनौ । अर्थव्यक्तिस्तथा श्लेषोऽलंकार इति चार्थिकाः ॥ १७५ ॥ पुराणसंख्यं विज्ञेयं लक्षणं त्वर्थतो गुणान् । आन्तरान्व्यञ्जयच्चन्द्रलोकाभरणसारतः ॥ १७६ ॥ - नन्वेवं यदि माधुर्यादयस्त्रय एव गुणास्तर्हि श्लेषः प्रसादः समता माधुर्ये सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः' इति जरत्तरोतशब्दादिश्लेषादिगुणदशकस्य का गतिरितिचेन्न । माधुर्यादावेव तदन्तर्भावादित्याह । माधुर्यादौ चेति ॥ १७१ ॥ एवं सूत्रितं श्लेषाऽदिगुणान्तर्भावं विवृणोति - श्लेषेत्यादिचतुर्भिः । तत्राद्ययुग्मेन शाब्दिक श्लेषादेरन्त्ययुग्मेनार्थिकस्येति ध्येयम् । एते श्लेषादयः पञ्च ओजसि अन्तर्भवन्तीति शेषः । एवमग्रेऽपि यथायोगमन्तर्भवतीत्याद्यूह्यम् ॥ १७२ ॥ माधुर्य एवेति । प्रसादके । स्वार्थे कः । प्रसाद एवेत्यर्थः । गिरः शब्दसंबन्धिनः श्लेषादयो गुणाः एते दशापि प्राच्यसंमताः । प्रकाशेति । आदिना काव्यप्रदीपप्रभृतयो ज्ञेयाः । अन्तर्भूताः सन्तीति संबन्धः ॥१७३॥ ओज इति । अमी ओजःप्रभृतयः षट् आर्थिका गुणाः दोषाणां अभावे जात्यभिप्रायेणैकवचनम् । तत्तद्दोषाभावेष्वित्यर्थः । अन्तर्भवन्तीत्यन्वयः ॥ १७४ ॥ काव्येति । नचेदं समाध्यभिधार्थिकगुणस्य काव्यरूपेऽन्तर्भावनकथनं माधुर्यादौ चेत्यादिप्रतिज्ञाविरुद्धमिति वाच्यम् । रसालंकारेत्यादिप्रथमरत्नप्रतिज्ञानुरोधेन काव्यस्य रसाद्यन्यतरमात्रमुख्यत्वरूपत्वेन ध्वनिशब्दिते रसप्रधाने अलंकृतिशब्दिते अलंकारप्रधाने वा प्रकृतस्य समाध्यभिधार्थिकजरत्तरसंमतगुणान्तर्भावयोग्यस्य काव्यरूपस्य स्फुटमेव सूत्रितत्वात् । रसेति । अलंकारध्वनिव्यावृत्त्यर्थं रसपदम् । इति चेति । च: समुच्चये । प्रकाशेत्यादिश्लेषादय इत्यन्तमत्राप्यनुकृष्य आर्थिकाः अर्थसंबन्धिन इत्यादिप्राग्वदेव योज्यम् । एतदुपपादनप्रकारस्तु काव्यप्रकाशकाव्यप्रदीपचन्द्रालोकप्रतापरुद्रसाहित्यदर्पणरसगङ्गाधरादावेव ज्ञेयः । अतिप्रयोजकत्वाभावादेव नेहमयोपन्यस्त इत्याकूतम् ॥ १७५ ॥ एवं शब्दद्वारा बाह्यान्माधुर्यादीन् गुणान्व्यञ्जयित्री रीतीर्वृत्तीश्च प्रपश्य अर्थद्वारा आन्तरांस्तान्व्यञ्जयति । प्रथमरले समुद्दिष्टान्यत्र तथात्वेन सामान्यतः प्रतिज्ञातानि लक्षणानि विवृण्वंस्त
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy