________________
गुणरत्नम् ७ ] सरसामोदव्याख्यासहितम् ।
३४३ महापुरुषसौख्यैकप्रतिपत्तिसमर्पणम् । कर्तुं तस्याः कल्पितत्वाद्वैदया॑द्यात्मिकैव सा ॥ १६६ ॥ एवं दृश्ये नाटकादावपि स्यात्तामसे रसे । प्रधानेऽपि न वैकट्यं वेण्यां कृतमिति स्फुटम् ॥१६७ ॥ मुक्तकं युग्मकं संदानितकं तद्विशेषकम् । कालापकं च कुलकमेकपद्यादिकं क्रमात् ॥ १६८ ॥ चतुर्दशान्तमेव स्यात्कुलकं तत्र मुक्तके । रसानुसारिरीत्यादिभूयादमरुके यथा ॥ १६९ ॥ संदानितकमुख्येषु त्वासमाप्तेस्तु रीतयः।
वृत्तयश्चाप्यवैदोऽमधुराश्चेत्यदर्शि दिक् ॥ १७० ॥ वैकट्याभावः स्फुट एव ॥ १६५ ॥ ननु गद्यात्मकत्वं तु कथावदाख्यायिकायामपि समानमेव तत्कुतोऽस्यामेवायं विशेष इत्याशङ्कय समाधत्ते-महापुरुषेति। तदुक्तं प्रदीपे–'कथायां तु रौद्रेपि नात्यन्तमुद्भटा वर्णादयः वर्णनीयमहापुरुषसुखप्रतिपत्तिसमर्पणस्योद्देश्यत्वात्' इति । तस्याः कथायाः । सा कथा ॥ १६६ ॥ अथोक्तन्यायं दृश्ये नाटकादिकाव्येऽप्यतिदिशति-एवमिति । कृतमितीति । तद्यथा--'कृतमनुमतं दृष्टं वा यैरिद गुरु पातकं मनुजपशुभिर्निमर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिनामयमहममृङ्मेदोमांसैः करोमि दिशां बलिम्' इत्यश्वत्थामवाक्ये । एवं 'क्षुद्राः संत्रासमेनं विजहिथ हरयः क्षुण्णशकेभकुम्भाः ' इत्यादिप्रागुदाहृते तादृशे मेघनादवचनेऽपि ज्ञेयमिति संक्षेपः ॥ १६७ ॥ एवं मुक्तकादावपि व्यवस्थां कथयितुं तत्स्वरूपं संक्षिपति-मुक्तकमित्यादिना स्यात्कुलकमित्यन्तेन । तदिति । यद्युग्मकं तदेव संदानितकमेतत्संज्ञकमपीति । एकेति । क्रमेण एकपद्यमात्रपरिसमाप्तान्वयमुक्तमित्यादि यथासंख्यं बोध्यम् । उक्तं हि प्रदीप एव । एकैकच्छन्दसि वाच्यसमाप्तिर्मुक्तकम् । द्वयोः संदानितकम् । त्रिषु विशेषकम् । चतुर्घ कालापकम् । पञ्चादिचतुर्दशान्तेषु कुलकमिति । अन्यत्रापि-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कालापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम्' इति । एवंच युग्मसंदानितकयोरनान्तरत्वं ज्ञेयम् ॥ १६८ ॥ तत्र मुक्तके रीत्यादि व्यवस्थापयति-तत्रेति । तदुदाहरति-अमरुके यथेति । अमरुकशतके हि सर्वेष्वपि पद्येषु रसानुसार्येव रीत्यादिकमिति प्रपञ्चितमेव मया शृङ्गारशान्तात्मके यर्थे शारदागमाख्ये तयाख्याने ॥ १६९ ॥ संदानितकादौ विशेषं स्पष्टयति-संदानितकेति । अवैदर्ग्यः वैदर्भीभिन्नाः अमधुरा इति च्छेदः । मधुरेतरा इत्यर्थः । रीतयो वृत्त. यश्चेति यथासंख्यं संबन्धः । इदमपि दिङ्मात्रमेवोक्तमित्याह-इतीति । इति मया दिक् अदीत्यन्वयः । एवंच प्रबन्धगतेषु तु मुक्तकादिषु प्रबन्धरसाद्युचिता एव रीत्यादय इत्याशयः । एवमेवोकं प्रदीपादाविति हृदयम् ॥ १७० ॥