SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३४२ [ पूर्वार्धे साहित्यसारम् । बालरामायणे विश्वामित्राश्रमजनोक्तितः । रक्तेति वाच्यैकौचित्याद्रीत्याद्यौद्धत्यमीक्षते ॥ १६३ ॥ आख्यायिकायां संभोगेऽप्येव वक्तर्यनुद्धते । विकटा एव रीत्याद्याः स्युर्हर्षचरितादिवत् ॥ १६४ ॥ कथायां तु तथा कादम्बर्यादौ तामसेपि च । रसे प्रासङ्गिकेनातिविकटा रीतिवृत्तयः ॥ १६५ ॥ - एवं वाच्यैकौचित्येनापि क्वचिद्रीत्यादिवैपरीत्यमुदाहरति — बालेति । एतेन प्रबन्धौचितौद्धत्यं व्युदस्तम् — विश्वेति । एवं च वक्रौद्धत्यव्युदासः । रक्तेतीति । तद्यथा – 'रक्ताभ्यक्तोरुसृक्कागुरुकव लगलज्जाङ्गलव्यग्रतालुः फेत्कारैः फुल्ल गलव्यतिकरगुरुभिः कम्पयन्ती जगन्ति । अन्योन्येनाग्रपाणिप्रणयिशवयुगं ताटका ताडयन्ती सेयं द्राग्दृष्टदंष्ट्राङ्कुरकषणरणत्कार भीमाभ्युपैति' इति । गुर्विति । गुरुः पृथुर्यः कवलस्तेन गलति मुखाच्यवति तादृशं यज्जाङ्गलं 'जाङ्गलो जलनिर्मुक्तदेशे मांसे च जाङ्गलम्' इति विश्वान्मांसं तत्र व्यग्रा तद्रहणाऽतुरा तालुर्यस्याः सा तथेत्यर्थः ॥ १६३ ॥ तद्वत्प्रबन्धौचित्यमात्रेण रीत्यादिवैपरीत्यमुदाहरति-आख्यायिकायामिति । अपिः संभोगशृङ्गारस्य वाच्यस्य सात्विकत्वेन मधुरत्वात्तदायत्तरीत्याद्यौद्धत्यव्यावृत्त्यर्थः । एवकारस्तु तत्रापि करुण विप्रलम्भशान्तेषु मधुरा एव रीत्याद्या इति द्योतनार्थः । तदुक्तं प्रदीपे क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव रचनादयः । तथाहि आख्यायिकायां हि शृङ्गारेऽपि व्यङ्गयेऽनुद्धतेपि वक्तरि नातिमसृणा वर्णादयः प्रत्युत विकटबन्धत्वेनैव । छायाबलात् । विप्रलम्भकरुणयोस्तु तस्यामपि दीर्घसमासपरिहारः । तयोरतिसौकुमार्यादिति । हर्षेति । तदुक्तं साहित्यदर्पणे- 'आख्यायिका कथावत्स्यात्कवेर्वेशानुकीर्तनम् । अस्यामन्यकवीनां च पद्यं क्वचित्कचित् । कथांशानां व्यवच्छेद आश्वास इति चोच्यते । आर्यावक्रापवत्राणां छन्दसां येन केनचित् । अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथा हर्षचरितादीति — आचष्टे आख्यायिकावृत्तार्थकथनाहर्षचरितादीत्याख्यायिकोपलब्धार्थेत्यमरे क्षीरस्वाम्यपीति दिकू ॥ १६४ ॥ कथायां तु विशेषान्तरं कथयति - कथायां त्विति । तदप्युक्तं दर्पण एवं - 'कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् । क्वचिदत्र भवेदार्या क्वचिद्वापवत्रके । आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम्। यथा कादम्बर्यादीति । एवंहि तत्र मृगयाध्वनिर्वर्णितः - 'सहसैव तस्मिन्महावने संत्रासितसकलवनचरः सरभससमुत्पतत्पतत्रिपक्षशब्दः समंततो भीतकरिपोतचीत्कारपीवरः प्रचलितलताकुलितमत्तालि कुलक्कणितमांसलः परिक्रमदुद्रोणवन वराहघर्घरो गिरिगुहाप्रमुप्तप्रबुद्ध सिंहनादोपबृंहितः कम्पयन्निव तरून् भगीरथावतार्यमाणगङ्गाप्रवाहकलकलबहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत्' इति । अत्र च प्रासङ्गिके रौद्रादौ तामसेपि रसे रीत्यादेरवि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy