________________
गुणरत्नम् ७ ]
सरसामोदव्याख्यासहितम् ।
परुषायां तु पृथ्व्येका न तु साऽन्यत्र राजते । प्रौढायामन्यछन्दांसि प्राधान्याच्च तयोरपि ॥ १६० ॥ एवं यद्यपि रीत्यादेर्गुणैकायत्तता स्थिता । तथापि वक्राद्यौचित्यादन्यथात्वमपीष्यते ॥ १६९ ॥ मन्थेति भीमसेनोक्तौ वेण्यां वक्रेकयोग्यतः । प्रश्नेऽपि गौडी रीतिश्च वृत्तिश्च परुषा तथा ॥ १६२ ॥ वृथा पन्नखायैः कृष्णः प्रेयानपि तव पदाम्भोजभृङ्गत्वमाप्तः । यावत्कामः प्रकटयति न प्राचि तन्मानिनीनां चक्रं मानच्छिदतिनिशितं तावदेव प्रसीद' इति । पुष्पिताग्रापि तत्रैव यथा - 'सखि किमिति मुखं न ते प्रसन्नं शशिवदनेऽन्तरयं दहत्यनङ्गः । इति नमति हरौ बभूव राधा सपदि लतेव वसन्तपुष्पिताग्रा' इति । मालभारिणी तु भामिनीविलासे यथा - 'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत्' इति । एतन्निरुक्तवृत्तनवकम् । अन्यत्र परुषादौ । प्रत्युदाहरणानि तु स्वयमेवान्वेष्याणीति संक्षेपः ॥ १५९ ॥ अथ परुषोपयुक्तं वृत्तमाह - परुषायां त्वित्यर्धेन । यथा - 'पुरंदर हरिद्दरी कुहर गर्भ सुप्तोत्थितस्तुषार कर केसरी गगनकाननं गाहते । मयूखनखरत्रुटत्तिमिरकुम्भिकुम्भस्थलोच्छलद्बहलतारकाकपटकीर्णमुक्तागणः' इति कस्यचित् । 'अयं पततु निर्दय' इति रसगङ्गाधरेपि । प्रौढोपयुक्तं वृत्तमाह - प्रौढायामिति । तानि गौणत्वेन तु मधुरादावपीत्याह - चेति ॥ १६० ॥ नन्विदं रीत्यादिकं किं गुणैकाधीनमुत वक्राद्यधीनमपीत्याशङ्कयान्त्यकोटिमङ्गीकरोति — एवमिति । अन्यथेति । गुणेतरतन्त्रत्वमपीत्यर्थः । तदुक्तं काव्यप्रकाशकारिकाकारैः – ' वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । रचना वृत्तिवर्णानामन्यथात्वमपीष्यते' इति । विवृतं चेदं प्रदीपे । अन्यथात्वं गुणपारतन्त्र्याभावः । वक्तृवाच्यप्रबन्धौचित्यविरह एव गुणपारतन्त्र्यस्वीकारात् । तत्रापि वक्तृक्रोधाङ्गव्यक्तावुपयोगादिति ॥ १६१ ॥ तत्र वक्तृमात्रौचित्येन रीत्यादिवैपरीत्यमुदाहरति — मन्येतीति । तद्यथा - 'मन्थाय स्तार्णवाम्भः प्लुतिकुहरचलन्मन्दर• ध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघचण्डः । कृष्णा क्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिर सितसखो दुन्दुभिस्ताडितोऽयम्' इति। वेण्यां वेणीसंहरणाख्ये नाटक इत्यर्थः । तेन प्रबन्धौचित्यव्युदासः । वत्रिति । वक्तृमात्रैौचित्यादित्यर्थः । भावप्रधानो निर्देशः । प्रश्नेऽपीति । एतेन प्रकृतेपि वक्तनिष्ठक्रोधस्यैव प्राधान्येन ध्वननाद्गोज्यादिरीत्यादिमत्त्वमुचितमेव प्रकृततामसरसगौजोगुणनिघ्नत्वेनेत्यपास्तम् । वक्तुस्तदधिकरणत्वयोग्यत्वेऽपि प्रश्नवाक्ये प्रस्तुते तदयुक्तत्वात् । चकारद्वयादारभट्याख्यपूर्वोक्तार्थिकवृत्तेः कठोरपदवृन्दस्य च संग्रहः । तस्मादत्र भीमसेनाख्योद्धतवक्तमात्रस्वाभाव्येन रीतिवृत्त्यादेरौद्धत्यं नतु तामसरसनिष्ठौ जोगुणपारतन्त्र्यवशादित्याशयः ॥ १६२ ॥
३४१