________________
पूर्वार्षे
साहित्यसारम् । अनेकदीर्घस्वरजैकसंयोगजगौरवम् । प्राकृतं तत्तु पाञ्चालीप्रौढासात्वत्युपस्थितम् ॥ १५३ ॥ सर्वलोकप्रसिद्ध्यैव प्रयुक्तं ग्राम्यमुच्यते । पाञ्चाल्यादौ च गौड्यादौ यथा युक्तं प्रतीयताम् ॥ १५४॥ एकस्वरगुरुत्वं वाऽगुरु वा कोमलं मतम् । वैदर्भीमधुराकैशिक्युपगं तद्विलोक्यताम् ॥ १५५ ॥ पण्डितैकप्रसिद्धं यन्नागरं तत्पदं स्मृतम् । वैदादौ च गौड्यादौ पाञ्चाल्यादौ यथायथम् ॥१५६॥ पण्डितानुचरद्वित्रिचतुरैकप्रसिद्धिकम् । उपनागरमेतश्चाप्युक्तरीत्यैव वीक्ष्यताम् ॥१५७॥ मधुरायां यावदार्या मालती च प्रहर्षिणी। मनुभाषिण्यपि ज्ञेया वसन्ततिलका तथा ॥१५८ ॥ हरिणीतद्वदेवेष्टा मन्दाक्रान्ता तथैवच ।
पुष्पिताग्रा मालभारिण्येतन्नान्यत्र युज्यते ॥ १५९ ॥ संयोगबहुलं ज्ञेयम् ॥ १५२ ॥ प्राकृतं प्रकृतिस्थम् ॥ १५३ ॥ यथायुक्तं हास्यबीभत्सावच्छेदेनेत्यर्थः ॥ १५४ ॥ अगुर्विति च्छेदः ॥ १५५ ॥ प्रतीयतामिति शेषः ॥ १५६ ॥ उक्तेति । पूर्वपद्य इति शेषः ॥ १५७ ॥ एवं निरुक्तमधुरादिवृत्त्युपयुक्तानि वृत्तान्यपि संक्षिपति-मधुरायामित्यादित्रिभिः । तत्रापि मधुरा• मात्रोपयुक्तानि तान्याह-मधुरायामित्यादिद्वाभ्याम् । यावदिति । यावन्त आर्याभेदा इत्यर्थः । यथा-'निर्द्वन्द्वादपि मोक्षादतिशेते कामिनीकुचद्वन्द्वम्। गुणमालम्ब्य सुवृत्ता मुक्ता अपि यल्ल्ठन्तीह' इति पद्यामृततरङ्गिण्याम् । उपलक्षणमिदमु. दाहरणान्तराणाम् । मालती तु यथा मदीये दुःखक्षयेन्दूदये-'तव वदनं कथमिन्दुनिन्दनैरपि विकृति किल नैति राधिके । इति वचनं कलयन्त्यसौ हरेरभवदनङ्गसुफुल्लमालती'इति। प्रहर्षिणी यथा मदीये भागीरथीकथाचम्पूकाव्ये—'धन्यानां मृदुलपदाः सुवर्णरूपाः सद्वृत्ताः सरसगुणाः प्रसादशीलाः । नानालंकृतिविलसवनिप्रचाराश्चुम्बन्ति खरसत आस्यमीज्यवाचः' इति । मञ्जुभाषिण्यप्युदय एव यथा-'तव शिञ्जितं मनसि मेऽञ्जसा प्रिये कुरुतेऽङ्करं मनसिजस्य यद्यपि । न स पल्लवत्यपि विना वचोऽमृतैरिति कृष्णवाचमनु मजुभाषिणी' इति । वसन्ततिलका तु भामिनी विलासे यथा—'तन्मजुमन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः' इति ॥ १५८ ॥ हरिणीति । सा तु सिद्धान्तलेशे यथा'अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा सरिदिव महीभेदान्संप्राप्य शौरिपदोद्गता । जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता जननहरिणी सूक्तिर्ब्रह्माद्वयैकपरायणा' इति । मन्दाक्रान्ताप्युदयगैव यथा-'राधे मुग्धे लिखसि धरणी किं