SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । एतासामुपयुक्तानि सन्ति षोढा पदान्यपि । कठोर प्राकृतग्रास्यकोमलं नागरोप ते ॥ १५१ ॥ सानुस्वारविसर्गादिदीर्घस्वरजगौरवम् । कठोरं तत्पदं गौडी परुषारभटीस्थितम् ॥ १५२ ॥ गुणरत्नम् ७] ३३९ हेतुमाह - श्रुतीत्याद्युत्तरार्धेन । श्रुतिर्निराकाङ्क्षनिर्बाध निजोतिः स्वार्थे लालने सुखं ताडने नीत्युपदेशेन परिणाम सुखमित्यर्थः । शिष्टं तु स्पष्टमेव । एवं चात्र पक्षत्रयेऽपि चतुष्पदानधिकसमासत्वेन रीतेः पाञ्चालीत्वं, तथा 'ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यते' इति लक्षितभारतीनामकवृत्त्यन्तर्भावक - 'ईषत्प्रौढार्थसंदर्भा सात्वती वृत्तिरिष्यते' इति प्रतापरुद्रलक्षितार्थिकसात्वत्यभिधवृत्तित्वं तद्वन्माधुर्यपारुष्योभयधर्माक्रान्तत्वेन वृत्तेः प्रौढात्वं च प्रसादाख्यगुणस्य सर्वरससाधारण्येऽपि हास्याद्भुतभयानकाभिधराजसरसावच्छेदेन प्राधान्यवशाच्छन्दावच्छेदद्वारा तवनकत्वं चेति लक्षणसमन्वयो ज्ञेयः । यथावा - ' धन्यास्ते कवयो यदीयरसना रुक्षाध्वसंचारिणी धावन्तीव कुमारिका द्रुतपदन्यासेन निर्गच्छति । अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पीनो तुङ्गपयोधरेव युवतिर्मान्थर्य मालम्बते' इति ॥ १५० ॥ अस्त्वेवं निरुक्तरीत्या वृत्त्यादिव्यवस्था तथापि तदुपकारिवर्णवतद्घटितानि पदान्यपि समासावच्छेदेन वैदर्भ्यादिवद्वर्णावच्छेदेन मधुरादिवदर्थावच्छेदेन कैशिक्यादिवत्किं संज्ञाविशेषवन्ति सन्ति नवेति पृच्छन्तं प्रति तत्सत्वप्रतिज्ञादिना समादधंस्तानि ससंख्योपकारमुद्दिशति – एतासामिति । नागरेति । नागरं च उपतत् उपनागरं चेति तथा नागरोपनागरे इत्यर्थः ॥ १५१ ॥ तत्रोद्देशक्रमेणैव तलक्षणादिसंक्षिपति - सानुस्वारेत्यादि षड्डिः । तथाचाहुः - षोढा पदं भवति प्रकृतिस्थं कोमलं कठोरं ग्राम्यं नागरं उपनागरं च । तत्रानेकदीर्घस्वरकृत गौरवमेकसंयोगकृतगौरवं वा पदं प्रकृतिस्थं यथा । नीहार-तारानी 2 काश-सारसीत्यादि हस्तपल्लव- कंकण- कर्पूरादि च । एकस्वरकृतगौरवं । गुरुशून्यं वा कोमल करेणु-तारक- सरोज निकरादि मधुर-मसृण- सरस- सरलेत्यादि च । सानुस्वारविसर्गदीर्घस्वरकृतगौरवं संयोगबहुलं वा कठोरं यथा शुद्धं पयः पाचयांबभूव अंहिषातामित्यत्र अच्छाच्छ तत्रस्थ व्यूढोरस्कप्रच्छन्नेत्यादि च प्रसिद्धि - मादाय ग्राम्यादित्रयं भवति । प्रसिद्धिस्त्रिधा सार्वलौकिकी पण्डितजनगामिनी तदुपजीविद्वित्रिच तुला किकगामिनीचेति । तत्र सर्वलोकप्रसिद्धं ग्राम्यम् । देशीयपदानि सर्वाण्येव संस्कृतेषु हस्त-विवाह-भगिनी हार कंकणादिकम् । एतदपभ्रंशसमानसिद्धिकतिपयप्रसिद्धं चेति गीयते । ग्राम्यवैपरीत्येन नातिप्रसिद्धं नागंर नागरेणोपमितमिति कृत्वाऽतिप्रसिद्ध्यभावेनोपमा । इदमेव नात्यसिद्धमुपनागरमित्युच्यते । यथा आढ्याश किंशारु खुरली लातंकेत्यादीति मूले । आदिना निरुक्त 1
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy