SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३३८ साहित्यसारम् । [ पूर्वा 1 तथा कुत्रापि अतादृशे यूनि विषये परुषा कठोर भाषणादिना प्रतिकूला च मता । मया प्रत्यक्षादिप्रमितिविषयीकृतास्तीत्यर्थः । एतेन विनोदोक्तित्वं व्युदस्तम् । तेन च हासः परिपोषितः । नन्वेवं कुलाङ्गनायामस्यां कथं संभावनीयमित्यत आहश्रुतीत्याद्युत्तरार्धेन । येयं श्रुतीति । तुभ्यं कनकं दास्यामीति जारविरावश्रवणोत्तरक्षणमेवेत्यर्थः । एतेनातिवित्तलौल्यपूर्वकं कामुकीत्वं व्यज्यते । स्वार्थ स्वस्याः अर्थः सुवर्णावाप्तिपूर्वक सुरतसुखाख्यः पुरुषार्थः येन स कुचस्तथा तम् । पक्षे स्वस्यस्वकीयजारस्य अर्थः संभोगः एतादृशं खस्तनम् । करेति करे यत् बिल्वं तेन तुल्यं हस्तनिहितबिल्वफलसममिति यावत् । एवंच परमोद्धतत्वं ध्वन्यते । ददाति तस्मै जाराय प्रयच्छतीत्यन्वयः । अत्र हास्यरसव्यञ्जकत्वं स्पष्टमेव । अद्भुतपक्षे तु इदं हि किं सुभद्रायाः कनिष्ठायाः शीलं तुभ्यं रोचते किंवा ज्येष्ठाया द्रौपद्या इति रहसि प्रेम्णा पृच्छन्तं भगवन्तं प्रति अर्जुनवचः । हे भगवन्, प्रौढा तु ज्येष्ठा तु । वैलक्षण्यसूचकस्तुशब्दः । तेन कनिष्टायाः सुभद्रायाः कनिश्रुत्वादेव बाल्यं द्योत्यते । एतस्यां तु तद्वैलक्षण्यं न केवलं वयः प्रयुक्तप्रौढत्वमात्रेण किंतु गुणप्रयुक्तेनापि तेनेति च क्वापि रत्यादिवेलायां मधुरामधुरभाषिणी, तथा कुत्रापि अश्वत्थामकृतखपुत्रवधादिवेलायां परुषापरुषभाषिणी एतादृशी मता प्रमितास्तीत्यर्थः। किमेतावतेत्यत आह-श्रुतीत्याद्युत्तरार्धेन । 'निरपेक्षो रवः श्रुतिः' इति वचनात् श्रुतिर्निराकाङ्क्षनिर्बाध निजवाक्यं तावन्मात्रेणेत्यर्थः । स्वार्थं मणितसुखादिपुमर्थ, पक्षे कोपेऽपि कान्तं मुखमिति कविसमयादुत्साहोद्दीपकपरुषवाक्यकरणकसत्काव्यसमानधर्मको पदेशकालेऽपि स्वीयनिसर्ग सौन्दर्यानुसंधाना - दिजन्यसुखविशेषलक्षणं तमिति यावत् । स्पष्टमेवान्यत् । एवंच परस्परविरुद्धमाधुर्यपारुष्योभयधर्मसामानाधिकरण्यं तथा स्ववाक्यप्रयोगमात्रेण प्रत्यक्षकामादिपुरुषार्थदातृत्वं चैकस्यां द्रौपद्यामेवेति परमाद्भुतमित्याकूतम् । यद्वा ब्रह्मविद्योत्तरं तत्प्रदात्र्या चूडालाख्यस्वपत्न्या सह स्वधर्मेण राज्यं परिपालयतः शिखिध्वजस्य रहसि निकटस्थां तां निरीक्ष्य स्मृताखिलबाल्यादितदवस्थाकस्य स्वमनस्येवेदं वाक्यम् । प्रौढा तु इयमिति शेषः । एतेन मौग्ध्यादौ तस्यां सार्वौशिकमाधुर्यमेवेति ध्वनितम् । कुत्रापि कुम्भरूपेण तत्त्वविद्योपदेशकरणकाल इत्यर्थः । परुषा सर्वत्यागे क्रियमाणेऽपि नैतावता सङ्गत्याग: संपन्न इत्यादिकठोराक्षरभाषिणीत्यर्थः । श्रुतीति । श्रुतिः' अयमात्मा ब्रह्म' इत्यादिमहावाक्यम् । मात्रचा सामग्र्यन्तरस्य योगादेर्व्युदासः । स्वार्थ अद्वैतात्मरूपं कैवल्याख्यं परमपुमर्थमिति यावत् । शिष्टं तु प्राग्वदेव । तस्मादद्भुतेयं मत्प्रेयसीत्याशयः । भयानकपक्षेऽपि तु इदं हि यशो - दयोलूखले निबद्धं कम्पमानं रुदन्तं भगवन्तं प्रति कस्यचित्तद्वयस्यस्य गोपबालस्य वचः। भो कृष्ण, अस्मदाद्या बालास्तु सर्वत्र मधुरा एव, प्रौढा त्वियं यशोदा कापि लाल कालादौ मधुरा कुत्रापि ताडनकालादौ परुषापि मतास्तीति संबन्धः । तस्मादस्याः सकाशाद्भवता भेतव्यमेवेति भावः । तथापि सा मता मान्यैवेत्यत्र 1
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy