________________
गुणरत्नम्.] सरसामोदव्याख्यासहितम् ।
प्रेता नृत्यन्ति मस्तिष्कमेदःस्नायवन्त्रतृप्तितः। श्मशाने मांसभुत्क्रोष्टक्रूरगर्जनजर्जरे ॥ १४८॥ नखवज्राग्रविच्छिन्नदृप्यद्दनुजवक्षसः। नृहरेः प्रज्वलत्कल्पज्वलनादृशोऽभवन् ॥ १४९ ॥ प्रौढा तु मधुरा कापि कुत्रापि परुषा मता।
श्रुतिमात्रेण या स्वार्थ ददाति करबिल्ववत् ॥ १५०॥ . र्थिकसंज्ञान्तरां परुषाख्यामोजसः शब्दावच्छेदेनाभिव्यजिकां क्रमेण वीरबीभत्सरौद्रसंज्ञकतामसरसेषूत्तरोत्तरं तदाधिक्यध्वनिकां वृत्तिमुदाहरति—य इत्यादित्रिभिः। इदं हि श्रीरामरावणयुद्धावसरे वाक्यम् । त्रिनेत्रेति । त्रिनेत्रत्रयम्बकः । एतेन तस्य मदनदाहकत्वादतिवीरवरवं व्यज्यते । तस्य एको यो दोर्दण्डस्तन्मात्रबाहुदण्डः तत्र मण्डत इति तथा एतादृशं यत्कोदण्डं धनुस्तस्य खण्डं करोतीति तथा। रौद्रकार्मुकभञ्जक इत्यर्थः । स करः मद्धस्त इत्यर्थः । दाशवके दशग्रीवसंबन्धिनि समरे संग्रामे शरं बाणं धर्तुं गृहीतुं नतु त्यक्तुम् । एतेन गर्वाधिक्यं ध्वन्यते । कृपः करुणः भवतीति संबन्धः । एतादृशमहाभटमुकुटरत्नकोटिपरिनिघृष्टपादपीठस्य ममात्र राक्षसापसदयुद्धे रोषसंस्पर्शेऽपि सदयतैव संपद्यत इत्याकूतम् । अन्यत्सर्व लक्षणसमन्वयादिकं तूतदिशैव कल्प्यमिति संक्षेपः ॥ १४७ ॥ प्रेता इति । मस्तिष्कं मस्तकस्थमांसादिधातुविशेषः । 'तिलकं क्लोम मस्तिष्कम्' इत्यमरः । 'शृगालवञ्चुकक्रोष्टुफेरुफेरवजम्बुकाः' इत्यपि । स्पष्टमेवान्यत् ॥१४८ ॥ नखेति । नखा एव वज्राणि तेषामग्राणि तैः विच्छिन्नं विदारितं दृप्यद्दनुजवक्षः महाबलगऽद्धिरण्यकशिपूरःस्थलं येन स तथा । एतादृशस्य नृहरेः श्रीनृसिंहस्य । प्रज्वलदिति । प्रज्वलन् प्रदीप्यमानः एतादृशो यः कल्पज्वलनः कालाग्निस्तस्य ईर्ष्या असूया यासु तास्तथा प्रोद्दीप्यत्कालानलसमधिकदीप्तय इत्यर्थः ॥ १४९ ॥ अथ क्रमप्राप्तां पाञ्चाल्याख्यचरमरीत्युपकारिणी सात्वत्यभिधप्रतापरुद्राभिमतार्थिकसंज्ञां हास्याद्भुतभयानकाख्यराजसरसानुग्राहिकां सर्वरसानुस्यूतस्यापि प्रसादाख्यगुणस्य निरुक्तरसावच्छेदेन शब्दद्वारैव प्राधान्येन ध्वनयित्री प्रौढां वृत्तिं लक्षयंत्रिष्वप्येतेषु तामुदाहरति-प्रौढा त्विति । तथाच मधुराद्यन्वितत्वे सति श्रुतिमात्रेण खार्थावबोधकत्वं तत्वं बोध्यम् । प्रसादस्य सर्वरसानुविद्धत्वोक्तेर्मधुराद्यतिप्रसङ्गभङ्गाय पूर्वदलम् । 'अङ्गभङ्गोल्लसल्लीलातरुणीस्मरतोरणम् । तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटधियां वृथा' इत्युभयवृत्तिघटिते स्मरतोरणमिति पदेन प्रसाद. शून्ये चन्द्रालोकपद्ये तदर्थमन्त्यदलं चेति सर्वमवदातम् । अथोदाहरणान्यप्यत्रैव । तत्र हास्यपक्षे यथा । इयं हि कस्यचित्वकान्तावरजामुद्दिश्य तत्संनिधावेव कंचित्स्वसखं प्रत्युक्तिः । अये मित्र, अनया मत्पत्नीकनीयस्या कौमारादौ वयसि शतशः खवयस्याः साधारण्येनैव समुपभुक्ताः समभवन् , अधुना प्रौढा त्वियं क्वापि यथेच्छवित्तसुरतप्रदातरि तरुणे विषये मधुरामधुरभाषणादिना अनुकूला
२९