________________
३३६
साहित्यसारम् ।
[पूर्वार्धे यस्त्रिनेत्रैकदोर्दण्डमण्डिकोदण्डखण्डकृत् । . दाशवके शरं धर्तुं समरे सकरः कृपः॥१४७॥ अस्यार्थः-अइउऋ इति चतुर्णां ह्रखदीर्घप्लुतभेदाद्वादशसंख्या एवं । लकारश्चैकः प्लुतस्य तस्य वक्ष्यमाणवात् तथा दीर्घत्वाभावाचेति त्रयोदश । तथा एओऐौ इति चतुर्णा ह्रखबराहित्याद्दीर्घप्लुतभेदेनाष्टेत्येकविंशतिः खराः । तद्वत् कादयो मावसानाः स्पर्शा इत्युक्तेः कादिवर्गपञ्चकवर्णानां पञ्चविंशतिः स्पष्टैव । एवं यरलवशषसहेयष्टावपि । तथा वाणां चतुर्णा पञ्चमे परे मध्ये यमोनाम वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्नीः चख्नतुः अग्निः घ्नन्तीत्युदाहरणाद्यनुसारेण चत्वारो यमा अपि । एवमनुखारादयश्चत्वारः । तथा दुःस्पृष्टो लकारः अग्निमीळे इत्यादौ सुप्रसिद्ध एव । तद्वत् लकारः प्तश्चेति सर्वे मिलित्वा चतुःषष्टिसंख्याकाः दुःस्पृष्टस्य यजुरादावप्रसिद्धत्वेन त्रिषष्टिसंख्याका वा वर्णा इति। एतादृशी तथा अतीति । अतिविपुलाः गुर्वसवः वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणा इति वचनात् खफछठथाः घझढधभाः शषसहाश्चेति तथा ते यस्यां सा तथा प्रचुरमहाप्राणवर्णघटितेत्यर्थः । एतादृशी तथा अद्वीन्द्रा न विद्यते द्विः द्विगुणः इन्द्रः लः 'खण्डने त्रिष्वादाने स्त्रीनेन्द्रे' इति कोशात् लकारो यस्यां सा तथा । एवं अतिविसर्गाद्या अतिबहुलाः विसर्गाद्याः विसर्गजिह्वामूलीयोपध्मानीयाः यस्यां सा तथा । एतादृशी तथा अत्यूर्वरा अतिप्रचुरं ऊर्ध्वं वर्णोपरिवर्तमानाः राः रेफाः यस्यां सा तथा एतादृशी परुषा एतन्नाम्नी वृत्तिः । मता प्राच्यनव्यमताकूतसारत्वेन मम संमतेति यावत् । अस्तीति शेषः । एवं चातिविसर्गादिमहाप्राणोर्ध्वरेफसंयोगपरहस्खत्वे सति द्विगुणलकारेतरसर्ववर्णघटितरचनात्वं परुषवृत्तित्वं तल्लक्षणं सिद्धम् । अत्रापि पदकृत्यादिकं तु प्राग्वदेवोह्यम् । तदुक्तं काव्यप्रकाशकारिकायाम् । योग आद्यतृतीयाभ्यामन्त्ययोरेणतुल्ययोः । टादिः शषौ वृत्तिदैये गुम्फ उद्धत ओजसी' इति । विवृतं चैतत्प्रदीपे 'ओजसि व्यङ्गये वर्गप्रथमतृतीयाभ्यां सह तदन्तयोर्द्वितीयचतुर्थयोर्योगः । यथा कच्छपुच्छेत्यादि । तथा रेफेणाध उपरि उभयत्र वा यस्य कस्यापि योग: यथा वक्रार्कनिहज़दादयः । तथा तुल्ययोः कयोश्चिद्योगः यथा चित्तवित्तादौ तथा टादिचतुष्टयं शषौ चेति वर्णाः समासस्तु दीर्घः गुम्फो रचना साचोद्धता विकटेति । चन्द्रालो. केऽपि–'सर्वैरूवैः सकारस्य सर्वै रेफस्य सर्वथा । रहोर्ध्वाधस्तु संयोगःपरुषायां शषौ स्वतः' इति । रसगङ्गाधरेपि-नैकट्येन द्वितीयचतुर्थवर्ग्यवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णैर्घटितो झयूरेफान्यतरघटितसंयोगपरहखैश्च नैकट्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः अस्मिन्पतिताः प्रथमतृतीयवा गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाद्यघटकाश्चेत्तद्धटकास्त्वनुकूला एव । एवमनुस्खारपरसवर्णा अपीति ॥ १४६ ॥ अथैतां प्रागुक्तचतुर्थपदोर्ध्वयथेटपदसमासघटितत्वलक्षणया गौड्याख्यरीत्याङ्किता प्रतापरुद्राभिमतारभव्यभिधा