________________
सरसामोदव्याख्यासहितम् ।
काञ्चनं पञ्चबाणोऽपि चञ्चलानेव वञ्चयेत् । सन्ततं चिन्तयेऽनन्तं हन्त कान्तां तु नान्ततः ॥ १४५ ॥ संयोगपरखवढ्याखिलवर्णातिगुर्वसुः । अद्वीन्द्रातिविसर्गाद्यात्यूर्ध्वरा परुषा मता ॥ १४६ ॥
गुणरत्नम् ७ ]
३३५
,
भव विप्रयोगजनितं दुःखं विभक्तं तया' इति ॥ १४४ ॥ काञ्चनमिति । काञ्चनं सुवर्ण, पञ्चबाणो मदनः एवं चैतत्प्रधाना यावद्वधूगुणवती मुग्धेत्यर्थः । अपिः समुच्चये । एतेन यावलौकिकेष्टविषयसंग्रहः सूचितः । तथाचाहुः - 'वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च । तासु तेषु विरक्तश्चेत्साक्षाद्भर्गो नराकृतिः' इति । चञ्चलानेव चपलचित्तानस्थितप्रज्ञा नेवेत्यर्थः । एतेन तेषामेव भूमानन्दरूपखात्मानुसंधानविधुरत्वाद्वश्ञ्चनयोग्यत्वं व्यज्यते । वञ्चयेत् । धूर्तयिष्यतीत्यर्थः । दृश्यसुखप्रकाशनेन कितवयिष्यतीत्याशयः । एवकारेण तदितरनिरासः स्फुटितः । तेषां 'स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः' इति श्रीमद्भगवद्गीतो केः । स्थितप्रज्ञत्वाविनाभावसिद्धजीवन्मुक्तत्वेन यावद्दृश्यसुखस्याप्याभासीभूतत्वान्निरतिशयाद्वैतभूमानन्दस्यापि स्वात्मत्वेनैव नित्यप्राप्तत्वाच्च वञ्चनायोग्यत्वमेव किं तत इत्यत आहसंततमित्युत्तरार्धेन । अहमिति शेषः । तेनामानित्वोपलक्षितनिखिलसामग्रीपौकल्यं द्योतितम् । संततं नतु क्षणमात्रम् । एतेन ध्यानस्याधिमात्रत्वं व्यज्यते । अनन्तं देशादित्रिविधपरिच्छेद विधुरमद्वैतात्मानमेवेति यावत् । चिन्तये विचिन्तयामीत्यर्थः । ननु 'ऋतौ भार्यामुपेयात्' इत्यादिविहितसुरतार्थं कालान्तरे कान्तापि चिन्तनीयेत्यत आह-हन्तेत्यादिचरमचरणेन । इदं हि स्मृततदुपलक्षिताखिलविषयविषयकदुःखातिशयसूचकं अव्ययम् । तेन तदचिन्तने हेतुर्योतितः । कान्तां तु निरुक्तरूपामपि रमणीं त्वित्यर्थः । कनकादिवैलक्षण्यावद्योती तुशब्दः । अन्ततोऽपि प्राणान्तसंकटेऽपीत्यर्थः । नैव चिन्तय इत्यनुकृष्यान्वयः । एतेनास्या एव सर्वानर्थमूलप्राधान्यं ध्वन्यते । शिष्टं तु सर्व पूर्वरीत्यविशिष्टमेव । माधुर्याधिक्यमपि निरुक्तविप्रलम्भापेक्षया सहृदयहृदय प्रत्यक्षमेवेति दिकू । यथावा मदीयाद्वैतामृतमञ्जयम् —' हा हन्तहन्त कान्ते तव सीमन्ते न कति नवान्तकिताः । बिम्बं विनावलम्बे तदहं साम्बं निरालम्बम्' इति ॥ १४५ ॥ एवं मधुरां सप्रपञ्चमुदाहृत्याथावसरप्राप्तामोजोव्यञ्जिकां परुषां वृत्तिं लक्षयति-संयोगेति । संयोगः पर्युदस्य लकारद्वयसंयोगेतर सर्वहल्संयोगः सः परः उत्तरः येषां तथाभूताः ये खर्वाः ह्रस्वाक्षराणि तैः आढ्या प्रचुरेत्यर्थः । तथा अखिलेति । अखिलाः सर्वे वर्णाः त्रिषष्टिश्चतुःषष्टिर्वा यस्यां सा तथा निखिलवर्णघटितेत्यर्थः । तथा चाह भगवान्पाणिनिः स्वशिक्षायां - ' स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः । अनुखारो विसर्गश्च कौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो लकारः प्लुत एव च । त्रिःषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयं भुवा' इति ।
1