SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [पूर्वार्धे साहित्यसारम् । सा शम्पां कम्पयन्तीव चम्पकैरपि कम्पते । अन्तरङ्गमनङ्गोऽयमङ्गनानां यदिङ्गति ॥ १४४ ॥ यम् । अन्यत्सर्वं रसपरिष्कारादिकं तु प्राग्वदेवोह्यं सुधिया। गौरवभियाद्य मया तूपरम्यत एवेति दिक् ॥ १४३ ॥ सेति । इदं हि नायकं प्रति नायिकासखीवाक्यम् । हे श्रीकृष्ण, सा पूर्व या त्वया समुपभुक्का सा राधिकेत्यर्थः। एतेनावश्यलालनीयत्वं द्योत्यते । शम्पाम् ‘शम्पा शतह्रदा ह्रादिन्यैरावत्यः क्षणप्रभा' इत्यमराद्विद्युतमित्यर्थः । कम्पयन्तीव खकान्त्याचतिशयदर्शनजन्यस्वधर्षणसाध्वसतः सवेपथुकां कुर्वतीवेति यावत् । अनयोत्प्रेक्षया तु प्रकृते प्रावृडारम्भसमये विद्युतः स्वभावादेव कम्पन्ते प्रत्युत तद्दर्शनादेवोद्दीप्तमन्मथेयं त्वद्विरहवशादेवातिविकलेति कम्पते खयमेवेति वस्तुस्थितिस्तत्रापि वैपरीत्यतर्कणाद्विादपेक्षयाप्यस्यामलौकिकगौरिमादिमत्त्वं ध्वन्यते । तेनानुपेक्षणीयत्वं व्यज्यते । एतादृशीस ती चम्पकैरपि फुल्लत्वेन निरीक्षितैश्चम्पकद्रुमैरपीति यावत् । अपिना तेषु भ्रमरसमाखाद्यलवैधुर्यस्य लोकशास्त्रसिद्धत्वात्तादृशामपि दर्शनेन यदैतस्याः कम्पस्तदा किं वाच्यं तन्निकुरम्बाङ्कानां कदम्बादिद्रुमाणां दर्शनेन तस्यास्तथासमिति विरहव्यथातिशयः सूचितः । एतेन त्वत्संयोगे लवमात्रमपि विलम्बासहिष्णुत्वमावेद्यते । कम्पते वेपथ्वाख्यसात्विकानुभाववती स्मरशरभीत्यैव भवतीति भावः । तत्र हेतुमाह-अन्तरङ्गमित्याद्युत्तरार्धेन । यद्यस्मात् अयं बुद्धिस्थत्वेन प्रत्यक्षः । एतेन तत्र प्रमाणाभावो व्युदस्तः । 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं( रित्येतत्सर्वं मन एव' इति श्रुतेर्मनोवृत्तिविशेषरूपत्वेन साक्षिप्रत्यक्षतायास्तत्र मनसि तत्वेनान्तरीयकवात् । अङ्गनानां तरुणीनाम् । एतेन वक्ष्यमाणतनियमनयोग्यत्वं द्योत्यते । अन्तरङ्गं नतु शरीराख्यबहिरङ्गं । तेन तत्पीडायास्त्वदेकयोगशाम्यत्वेनौषधाद्यपरिहार्यत्वं व्यज्यते। इङ्गति वशयतीत्यर्थः। यथा सूत्रधारः सूत्रचालनेन पाञ्चालिकाः प्रणर्तयति तद्वन्मन्मथोऽपि सामान्यतस्तरुणीवावच्छेदेन चक्षुरागप्रभृतितत्तदवस्थासु ताश्चेष्टयतीत्यतोऽसौ बदेकजीविका राधिका तु त्वद्विरहतस्तेन प्राणान्तं व्याकुलीक्रियत इति कैमुत्यसिद्धमेव । तस्माद्भवताऽतः परं सत्वरमेव तत्र गत्वा सा संभोगामृतवर्षणैः संजीवनीयैवेत्याशयः । अत्र पूर्वोक्तकरुणारसोदाहरणापेक्षया माधुर्याधिक्यध्वनकत्वं तु सहृदयहृदयैकवेद्यम् । एवं वैद रितिमधुरा वृत्तिः कैशिकी च सार्थिकीत्यादि तत्तल्लक्षणसमन्वयस्तथा विप्रलम्भशृङ्गारपरिपोषस्तत्तदलंकारापेक्षया तत्प्राधान्यादिकं च प्रागुक्तदिशैवोह्यमित्यलम् । यथावा-'अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीवाहितो न्यस्तं दैन्यमशेषतः परिजने चिन्तागुरुभ्योऽर्पिता । अद्यश्वः खलु निर्वृतिं व्रजति सा श्वासैः परं खिद्यते विश्रब्धो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy