SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७ ] सरसामोदव्याख्यासहितम् । येन्दुं कुन्दं मिलिन्दानां वृन्दं चेन्दीवरं वरम् । मन्दं सुन्दरि विन्दन्ती सेन्दिरा धरणीं गता ॥ १४३ ॥ 'अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता' इति । पण्डितरायाणां तु रीतिवृत्योरैक्यमेव विवक्षितमिति प्रतिभाति । तथाहि रसगङ्गाधरे तावत् काव्यदोषादिकमुक्त्वा ‘एभिर्विशेषविषयैः सामान्यैरपि च दूषणैरहिता । माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा । व्युत्पत्तिमुद्गिरन्ती निर्मातुर्या प्रसादयुता । तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम्', इत्यत्र वृत्तिपदं वैदर्भ्यां प्रयुज्य अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथावा - ' आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते हाहा बालमृणालतोऽप्यतितमां तन्वीतनुस्ताम्यति' । अस्याश्च रीतेर्निंर्माणे कविना नितरामवहितेन भाव्यमित्यत्र रीतिशब्दप्रयोगादिति । प्रकृतोदाहरणे तु तल्लक्षणसमन्वयस्त्वेवम् । दोषरत्नोक्तयावन्नित्यदोषाभावस्त्वत्र वर्तत एव । गुणसद्भावस्तु नैकट्यप्रयुक्तानुखारपरसवर्णशुद्धानुनासिकान्यतमत्वं तावदत्र गोवि न्दं मन्दंमन्दमिति स्फुटमेव । एवं टवर्गेतरेषां वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणा इत्युक्तेः कचतपानां वर्गप्रथमवर्णानां तथा गजदानां वर्गतृतीयवर्णानां णनमानां वर्गपञ्चमानां यरलवानां यणां शषसह ाख्योष्मणां च रेफणकारयोह्रस्वस्वरमात्रव्यवहितत्वं लकारस्य द्वित्वं च सोल्लास्यतीत्यादौ स्पष्टमेव । प्राचां लक्षणसमन्वयस्तु प्रेक्षावद्भिः परीक्षणीय एवेत्यलं पल्लवितेनेति ॥ १४२ ॥ एवं संभोगशृङ्गारे माधुर्यव्यञ्जिकां शब्दप्रधानां वैदर्भ्याख्यरीत्यन्वितां कैशिक्याख्यार्थिकसंज्ञान्तरां मधुरां वृत्तिमुदाहृत्याथ पूर्वोक्तक्रमेण करुणादावुत्तरोत्तरमाधिक्येन तवनिकां तामुदाहरति — येत्यादिभिः क्रमेण त्रिभिः । इदं हि श्रीरामस्य स्वमनस्येव सीतायाः पृथ्वीप्रवेशोत्तरं तां पुरः स्थितामिव स्मृत्वा शोकवाक्यम् । हे सुंदरि लोकोत्तरलावण्यादिललिते सीते, एतेन वक्ष्यमाणरोहिणीरमणादितिरस्करणकार्यकारणत्वं व्यज्यते । या त्वं इन्दुं शरद्राकापीयूषकिरणं तथा कुन्दं अर्धोन्मीलितकुन्दकुसुममित्यर्थः । एवं मिलिन्दानां भ्रमराणां वृन्दं कुलं तद्वत् वरं शरत्कालिकार्धोन्मीलितत्वेनोत्कटमिति यावत् । एतादृशं इन्दीवरं नीलोत्पलं मन्दं तुच्छं, यद्वा यथाश्रुतमेव वरं अत्यन्तं मन्दं तुच्छं विन्दन्ती खवदनमृदुहसनकुटिलकुन्तलकुलचञ्चलविशालविलोचनयुगुलशोभासंभारेण तृणवद्गणयन्तीसतीत्यर्थः । इन्दिरा आकारेणापि साक्षालक्ष्मीरेवेति यावत् । आसीरिति शेषः । एतेन प्रकृतशोकसामग्रीपौष्कल्यं सूचितम् । सापि अधुना धरणीं पृथ्वीं गता प्रविष्टासीत्यतो धिङ्मां मन्दभाग्यमिति भावः । अत्र पूर्वपद्यापेक्षया माधुर्यध्वननद्वैगुण्यं तु सहृदयधुरीणान्तःकरणस्य प्रत्यक्षमेवेति लक्षणसंगतिः । यथा वा रसगङ्गाधरे –'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुल प्रणयम् | हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः' इति । अत्रत्यतारतम्यं तु तेनैव नि ३३३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy