SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३२ साहित्यसारम् । [ पूर्वार्धे सुषुमत्वात्पुनरिदानीं तु कैमुत्यसिद्धातिशयितनिःसहाङ्गी तामालक्ष्य खस्य पुरुषोत्तमत्वेन तस्याश्च लोकोत्तरसुन्दरीत्वेन भूयः समुद्दीप्तमन्मथत्वेपि तत्परितोषार्थ शनैःशनैरित्यर्थः । एतेन केवलं तत्कुचकनकपङ्कजकोरकयुगोपरि बहिः संभोगारम्भधियैव श्रीहरौ करसरोजमात्रसंचारकत्वं सूच्यते । विहारिणं विलसनशी. लशालिनमिति यावत् । नत्वालिङ्गनमात्रलालसम् । तेन वक्ष्यमाणसुरतनिषेधन. लक्षणकार्यबीजं व्यज्यते । एतादृशं गोविन्दं सर्वेन्द्रियसंस्कारादिज्ञातारं नतु कृष्णम् । अनेन खस्यास्तत्सुरताभिलाषपौष्कल्येन गूढौत्कण्ठ्येपि शारीरसामर्थ्यमात्रस्यैव प्रागुक्तरीत्या राहित्यानिषेधनेनापि प्रत्युत प्रोत्साहकरणकथनहेतुर्योतितः । कुले संफुल्लशरन्मल्लिकानिर्मलसुललितलतापिहितप्रदेश इत्यर्थः । एवंचोद्दीपनपौष्कल्यं ध्वन्यते । अलसा भूरितरसुरतश्रान्ता। अतएव वक्ष्यमाणपाणिचेष्टा. मात्रेण निषेधसूचनमिति व्यज्यते । शिञ्जितानां कङ्कणाद्याभरणरणितानां नतु नूपुराद्यलंकारविरावाणाम् । तेन पाणिपद्मकम्पविशेषमात्रेणैव रतनिषेधसूचनं नतु वाचापीति सूचितम् । ततस्तस्यामतुलविश्लथशरीरत्वं द्योत्यते । मिषेण छद्मना । तत्रापि मन्दमन्दमिति पुनरत्राप्यनुवर्त्य शनैरेव नतु झटियेवेसर्थः । एतेन निरुक्तनिःसहत्वातिशयः सूचितः । पञ्चमैः 'पुष्पसाधारणे काले पिकः कूजति पञ्चमम्' इति वचनात्कोकिलकललक्षणपञ्चमाख्यखररागान्यतरध्वनिविशेषैरिति यावत् । अनेनाप्युद्दीपनप्राचुर्यमपि सूचितम् । आलम्बनविभावभूरिभाग्यं तु अमृग्यमेव उल्लासयति किमित्यन्वयः। भूयः संभोगार्थ प्रोत्साहयति किं इत्युत्प्रेक्षा। यद्यपि प्रतीयमानवाक्यार्थान्यथानुपपत्तिद्योतितपाणिपद्मचेष्टाविशेषध्वनितभूयः सुर. तनिषेधनमेव प्रकृतेऽवभाति तथापि नैतदुक्तनिषेधनं किंतु प्रत्युत तत्प्रोत्साहनमेवेत्यपह्नवाभिव्यञ्जकोत्प्रेक्षायां हेतुस्तु तात्कालिकतत्सौन्दर्यातिशय एवेति भावः। इह सर्वथा समासाभावाद्वैदर्भीत्वं रीतेः । एवं कचतपगजदबणनमशषसहयरलवानुखारादिभिन्नवर्णराहित्यादिघटितनिरुक्तलक्षणमधुरात्वं वृत्तेरपि । एवमत्यर्थसुकुमारार्थसंदर्भत्वेनास्याः प्रतापरुद्रोक्तमार्थिकं कैशिकीत्वमपि । तथा राधाकृष्णपरस्परालम्बनः कुञ्जशिजितोद्दीपनः प्रतिपादितोभयचेष्टानुभावनः स्मृतिप्रबोधालस्यसंचारणश्चोत्प्रेक्षाकाव्यलिङ्गपरिकरपरिकराङ्कुरकैतवापहृत्याद्यलंकारापेक्षयाsधिकचमत्कारकारित्वात्प्राधान्येन परिपुष्टः संयोगकालावच्छिन्नत्वेन संभोगाख्यः रत्याख्यस्थायिभाव एव शृङ्गारः सूच्यत इति तस्य संभोगत्वेन तनिष्ठमाधुर्यसामान्यस्य प्रकृते शब्दद्वारा व्यङ्गयत्वेन तदुदाहरणवं वस्य युक्तमेव । यथावा रसगङ्गाधरे-खेदाम्बुसान्द्रकणशालिकपोलपालिरन्तःस्मितालसविलोकनवन्दनीया । आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः' इति । प्रकाशादावपि–'अनङ्गरङ्गप्रतिमं तदङ्गभङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः खान्तानि शान्तापरचिन्तनानि' इति । अत्रत्यतारतम्यं तु सहृदया एवावेदयन्तु चिरम् । कैशिकीलक्षणं तु प्रतापरुद्र एवोक्तम्
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy