SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वां 1 कैशिक्यारभटी चैव सात्वती चेति ताः क्रमात् । / प्रतापरुद्र आर्थिक्यो मे सात्वत्येव भारती ॥ १४० ॥ भूयः शिरोगवर्गान्त्या सोष्माऽटाऽल्पा सुरूपिणी । ह्रस्वमध्यरणद्वीन्द्राऽनुपान्या मधुरा भवेत् ॥ १४१ ॥ मता शरज्ज्योत्स्नाशुभ्रामित्यादि सौन्दर्यलहर्युक्ततद्ध्याने तथात्वस्यैवाभिधानादिन्दुद्युतिसमानवर्णा सरखतीत्यर्थः । एवं भद्रा 'भद्वैषां लक्ष्मीः' इति श्रुतेर्लक्ष्मीरित्यर्थः । तद्वत् ललितापि त्रैलोक्यसुन्दरी भगवती गौरी च मे मधुरैव निरुक्तसीतादिवत्सात्विक्येव प्रतिभातीति योजना । एतदुपपादनं तु चन्द्रालोकाद्युपन्यासपूर्वकं लक्षणपरिष्कारेत्रानुपदमेव वक्ष्याम इति संक्षेपः ॥ १३९ ॥ एवमुक्तवृत्तीनामेव विद्या - नाथमते त्वार्थिकलक्षणाभिसंधिना नामान्तराण्यपि सन्तीति कथयंस्तत्रापि खसंमतं संकोचं सूचयति— कौशिकीति । भारती तदुक्ता चतुर्थी वृत्तिः । इदमप्यग्र एव ॥ १४०॥ अस्त्वेवमुक्तवृत्तीनामार्थिकं प्रतापरुद्रमते कैशिक्यादिसंज्ञान्तरमथापि प्रथमं मधुरादीनामेव तासां प्रत्येकं किंलक्षणमित्याकाङ्क्षां क्षपयंस्तत्रो - द्देशक्रमानुसारेणादौ मधुरालक्षणं संक्षिपति - भूय इति । भूयः वारंवारं शिरोगाः अक्षरक्षिरःस्थिताः अनुखारपरसवर्णशुद्धानुनासिकात्मना वर्तमानाः वर्गान्त्याः ककारादितत्तदक्षरपञ्चकलक्षणवर्गचरमवर्णाः ङजणनमाः यस्यां सा रसेष्टवर्णरचना तथेत्यर्थः । तथा सेति । ऊष्मभिः शल ऊष्माण इत्युक्तत्वाच्छषसहकारैः सहिताः तेच ते अटाः न विद्यते टः टवर्गो येषु ते तथा ते च ते अल्पासवश्च वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणा इत्युक्तेरल्पप्राणसंज्ञकाः कादयो वर्णास्तैः रूपं स्वरूपं यस्याः सा तथेत्यर्थः । एवं हस्वेति । ह्रखः एकमात्रः स्वरः मध्ये व्यवधिभूतो ययोस्तौ च तौ रणौ चेति तथा एवं द्विगुणीकृतश्चासाविन्द्रश्च तथा तौ च स चेति पुनर्द्वन्द्वः । एवंच 'ल: खण्डने त्रिष्वादाने स्त्रीनेन्द्रे' इत्येकाक्षररत्नमालावचनात् वाच्यवाचकयोरभेदविवक्षयैव रणलाः यस्यां सा तथेत्यर्थः । अन्विति च्छेदः । न विद्यन्ते उप नैकट्येन प्रयुक्ताः अन्ये शल्भिन्नमहाप्राणाः यस्यां सा तथेति यावत् । एतादृशी रचना मधुरा भवेत् एतन्नाम्नी वृत्तिः स्यादिति यथाश्रुतैव योजना । तदुक्तं काव्य प्रकाशसूत्रे - 'मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू । अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा' इति । वृत्तिः समास इति प्रदीपः । चन्द्रालोकेऽपि –'मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः । लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ' इति । एवं 'लकारोऽन्यैरसंयुक्तो लघवो घभवा रसाः । ललितायां तथा शेषा भद्रायामिति वृत्तयः' इति ललितादिवृत्त्यन्तरमपि तत्र लक्षितं तथाप्येकदेशविकृतन्यायेन तस्य लाघवान्मधुरानतिरिक्तत्वमेव बोध्यम् । रसगङ्गाधरेऽपि । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तःस्थैश्च घटितानैकट्येन प्रयुक्तैरनुखारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता अवृत्तिर्मृदुवृत्तिर्वा रचनानु ३३०
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy