________________
साहित्यसारम् ।
तत्तद्रसार्ह पदसंघटना रीतिरीरिता ।
वैदर्भी च तथा गौडी पाञ्चाली चेति तत्क्रमात् ॥ १३६ ॥ असमासा तुरीयोर्ध्वसमासा च यथेप्सितम् । तदेकान्तसमासा च विज्ञेया सा यथाक्रमम् ॥ १३७ ॥ त्सकाशाद्यतः भवति ततः हेतोः ते माधुर्याद्याः गुणाः अत्र तादृग्रीतिवृत्तिभ्यां व्यञ्जके शब्देऽधिकरणे । बाह्याः 'बाह्याः शब्दगुणा' इति सरखतीकण्ठाभरणवाक्यादेतत्संज्ञकाः सन्तीति संबन्धः । एवं रीतिवृत्तिद्वारा शब्दस्य गुणव्यञ्जकत्वं तदवच्छेदेन तेषां बाह्यत्वं चाभिधायाऽधुनाऽर्थस्य लक्षणद्वारा तयञ्जकत्वं तदवच्छेदेन तेषामान्तरत्वं च बोधयति - लक्षणेनेति । लक्षणेन वक्ष्यमाणेन । यतः अर्थतस्तद्व्यक्तिर्भवति इति पूर्वस्मादनुकृष्य योज्यम् । तेन हेतुना तत्र अर्थरूपेऽधिकरणे ते माधुर्यादयो गुणाः आन्तराः तेषु चान्तरास्त्वर्थसंश्रया इत्यपि तदुक्ते - रेतत्संज्ञका इत्यर्थः । मताः संमता इति संबन्धः । शब्दतदर्थयोः परस्परापेक्षया बहिरन्तर्भावाद्युक्तमेव तत्तदवच्छिन्नानां तत्तद्गुणानां तत्तत्संज्ञाविधानमिति तत्वम् ॥१३५॥ ततः प्राप्तावसरां रीतिं लक्षयति - तत्तदित्याद्यर्थेन । तत्र 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मयदैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभी मकिरीटिनां पुनरहमसृोदोमांसैः करोमि दिशां बलिम्' इति रौद्ररसीयौजोगुण व्यञ्जनाननुगुणपाञ्चाल्यादिरीतिमत्त्वेनारीतिमत्त्वदोषाक्रान्ते अश्वत्थामवा-क्येऽतिव्याप्तिव्यावृत्तये तत्तद्रसार्हति । वक्ष्यमाणायां वृत्तौ तां व्युदसितुं पदेति । तदुक्तं दर्पणे– 'पदसंघटनारीतिरङ्गसंस्थाविशेषवत्' इति । प्रतापरुद्रेपि — ' रीतिर्नाम गुणाश्लिष्टपदसंघटना मता' इति । तां पुनर्माधुर्यादिव्यञ्जिकां त्रिविधामेव क्रमेणोद्दिशति । वैदर्भीत्याद्युत्तरार्धेन । तत्क्रमात् माधुर्यादिव्ययगुणक्रमेणेत्यर्थः । तदुक्तं प्रतापरुद्रे । साच त्रिधा वैदर्भी गौडी पाञ्चालीचेति । एतेन दर्पणचन्द्रालो - कयोर्लाटरीतेश्चतुर्थ्या उक्तत्वेपि तस्या अनतिप्रयोजकत्वं व्याख्यातं 'लाटी तु रीतिवैदर्भीपाञ्चाल्योरन्तरास्थिता' इति दर्पण एवोक्तत्वादिति दिकू ॥ १३६ ॥ एवमुद्दिष्टां त्रिविधामपि रीतिं क्रमेण लक्षयति – असमासेति । एवंच सर्वथा समासशून्यतत्तद्रसोचितपदसंघटनात्वं हि वैदर्भीत्वमिति तलक्षणं संक्षिप्तम् । गौड्यादावतिप्रसङ्गभङ्गाय शून्यान्तम् । नच तत्तद्र सोचितेत्यनेनैव शान्तादिरसागुण्येन वैदर्भीसिद्धौ व्यर्थविशेषणत्वमिति वाच्यम् । तस्य साधारण्यात् । नापि तर्हि तस्यैव प्रकृते वैयर्थ्यम् । घटमानयेत्यादावपि तदापत्तेः । तुरीयेति । यथेप्सितं तुरीयाख्यचतुर्थपदोर्ध्वपदसमासघटितेत्यर्थः । अत्रापि प्राग्वदेव लक्षणाद्युन्नेयम् । तथाच चतुरधिकयथेष्टपदसमस्ततत्तद्रसोचितपदसंघटनात्वं गौडीवं बोध्यम् । तदेकान्तेति । तच्छब्देनात्र तुरीयपदं तन्मात्रपर्यन्तसमासशालिनीत्यर्थः । तेन चतुः पदानधिकसमस्ततत्तद्र सोचितपदसंघटनात्वं पाञ्चालीत्वमित्यपि ज्ञेयम् । शिष्टं तु प्राग्वदेव । यथेति । माधुर्यादिखव्यङ्गयक्रमानुसारेण
३२८
[ पूर्वार्धे