SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२६ साहित्यसारम् । [पूर्वाधे तन्मन्दं बहले दाह्ये तादृग्वह्निः प्रयोजकः। दृष्ट एवेति किं हेतुर्वह्निन दहनेऽस्ति वा ॥१३०॥ यश्चात्मनो गुणत्वेन तद्रूपे व रसे गुणाः । इत्युक्तं तदपि स्थूलं तत्तोक्तेः शबलेऽपि ते ॥ १३१ ॥ इति यदुक्तं तन्मन्दमित्युत्तरेणान्वयः ॥ १२९ ॥ प्रतिज्ञातेऽर्थे हेतुभूतां प्रति बन्दि विशदयनाक्षिपति-बहल इत्यादिशेषेण । पुष्कल इत्यर्थः । एतादृशे दाहे तृणादौ तादृक् बहलः वह्निः प्रयोजकः हेतुः दृष्टएव प्रत्यक्षीकृत एव । इति हेतोः वह्निर्दहने कर्मणि विषये हेतुर्न अस्ति किं वह्नित्वेन दहनत्वेन च कार्य कारणभावो नाङ्गीक्रियते किमिति योजना । तस्मात्तत्र यथा बहलत्वादिकं कार्य कारणभावे अप्रयोजकं तद्वत्प्रकृतेऽपि माधुर्यतरत्वादिकमप्रयोजकमेवेति भावः नच वह्नित्वसामान्यवद्रसत्वसामान्येनैव भवतु कार्यकारणभावः सतु सात्विका दितत्तद्रसत्रिकात्यादिकार्यत्रयदर्शनेनानिष्ट एव । माधुर्यादिमत्त्वं तु तदितरधर्म त्वेन गडूपममेवातो विषमैवेयं प्रतिबन्दीति वाच्यम् । मधुरतरादिगुणानां द्रुति तरादिना कार्यकारणभावाक्षेपे प्राप्तबहलदाह्यतादृग्वह्निकार्यकारणभावापत्तिमात्रांर एवं प्रतिबन्दीव्युद्भावनेन तत्साम्यसौलभ्यात् तत्रत्यवह्निवलक्षणकारणतावच्छे दकापेक्षया प्रकृते माधुर्यादिमत्त्वस्य गुरुभूतस्य तस्य तु मधुरः शृङ्गार इत्यादि सहृदयहृदयसाक्षिकानुभवबलेनैवागत्याङ्गीकरणीयत्वात्तादृशचित्रदुकूले रक्तादिरू. पवत्त्वस्यैव तत्तन्तुषु कारणतावच्छेदकस्य गुरुतरस्यापि सर्वसंमतत्वाच्च । नचैवमपि वढेरिव माधुर्यादेरेव कारणवं संपन्नं तत्त्वनिष्टं माधुर्यादिमत्त्वेन रसस्यैव कार णतायास्त्वयोपपादितत्वादिति वाच्यम् । माधुर्यादेर्धर्मत्वेन धर्मिणं विहाय कार्यकारित्वासंभवात्तत्रैव तत्पर्यवसानाद्गन्धादौ तथैवेक्षणाच्च । तस्माद्युक्तमेवोक्तरसधर्मत्वं माधुर्यादिगुणानामिति संक्षेपः ॥ १३० ॥ नन्वेवमपि रसधर्मत्वं न माधुर्यादेयुक्तिसहम् । रसस्य तु त्वन्मते 'रसो वै सः' इति श्रुत्यवलम्बनेनात्मरूपतया निर्गुणत्वात् । तदुक्तं रसगङ्गाधरे—'किंच आत्मनो निर्गुणतया आत्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम्' इति । एवंच शब्दादिधर्मत्वमेव सर्वजनप्रतीयमानं तेषां समञ्जसं किमनेन बकबन्धनप्रयासेनेत्याशयमनूद्य खप्रतिज्ञाननुसंधान. मूलमेवेदं चोद्यमिति मनसि निधाय तां स्मारयति-यञ्चेति । अगुणत्वेनेति च्छेदः । स्थूलं पामरजनरमणीयमेवेत्यर्थः । प्रतिज्ञातेऽर्थे हेतुं व्युत्पादयतितत्तेत्यादिशेषेण । ते तव अपि रसगङ्गाधरकर्तुस्तव मतेपीत्यर्थः । शबले रत्याद्युपहित आत्मन्येवेति यावत् । तत्तोक्तः तस्य रसस्य भावः तत्ता तस्याः उक्तिस्तस्या हेतोरित्यर्थः । तथाचोक्तं तत्रैव । वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रस इति । तस्मादीश्वराभिधसगुणे ब्रह्मणि यथा मायिकसत्त्वादिगुणाः सिद्धान्तिता एव तद्वत्प्रकृते रसेऽपि रत्यादिनिष्ठसत्वादिपरिणामानां माधुर्यादिगुणानां त्वदुक्तिनान्तरीयकसिद्धिकत्वान्न कोऽप्यत्र वैमत्यावसर
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy