________________
३२५
गुणरत्नम् ७ ] . सरसामोदव्याख्यासहितम् । ३२५
तर्हि तन्नैव ते युक्तं गौरवादिति चेन्न तत् । द्रुत्यादिजनकत्वे तद्वत्त्वेनैव तु लाघवात् ॥ १२८ ॥ यत्तु दुतितरे कार्य माधुर्यतरहेतुता। अवश्येत्युदितं माधुर्यादिमत्त्वं गडूपमम् ॥ १२९ ॥
स्फटिकचषकगतगङ्गोदकनिक्षिप्तसितोपलाशकलन्यायेन मनोवृत्तेगलितत्वमिवावस्थाविशेष इत्यर्थः । आदिना प्रागुक्तदीप्यादिः । एतादृशस्य कार्यस्य कारणेति । माधुर्येति । आद्यपदादोजःप्रसादौ गुणा इति यदि । रसेति । शृङ्गारादिरसैकनिष्टा इति यावत् । अनुमीयन्ते अनुमितिविषयीक्रियन्त इत्यर्थः । अत्रायं प्रयोगः-शृङ्गाराद्या रसाः प्रागुक्तद्रुत्यादिकार्यतानिरूपितसामान्यभिन्नकिंचिधर्मरूपकारणतावच्छेदकावच्छिन्नाः कारणत्वात् घटं प्रति मृत्तिकावदिति । अ. स्यार्थः । साहि श्लक्ष्णत्वलक्षणेन मृत्त्वजातीतरेण किंचिद्धर्मरूपेण कारणतावच्छेदकेन युक्तैव यथा कारणत्वं लभते तद्वत्प्रकृतेऽपीति बोध्यम् । एवंच कारणतावच्छेदकतयैवैतत्सिद्धिः ॥ १२७ ॥ तर्हि तत् अनुमित्या रसाधिकरणकत्वेन माधुयांदिगुणसाधनमित्यर्थः । ते मंमटमतमानिनः । युक्तं न्याय्यं नैव भवतीत्युत्तरेणान्वयः । कुत इति चेत्तत्र हेतुमाह-गौरवादिति । सर्वसंमतशृङ्गारत्वादिनिसर्गसिद्धप्रातिस्विकतत्तद्रसजातिलक्षणकारणतावच्छेदकेनैव निरुक्तद्रुत्यादिकार्यनि
हे तदितरमाधुर्यादितत्समानाधिकरणगुणाङ्गीकरणे गुरुतरनिष्फलप्रयासादिति यावत् । तदुक्तं रसगङ्गाधरे—'तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानामनुमानमिति चेत् प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात्' इति । अथोक्तशङ्काम नूद्य तत्खण्डनं प्रतिजानीतेइतीत्यादितदर्धशेषेण । तत्र हेतुं कथयति । द्रुत्यादिजनकत्वे तद्वत्त्वेनैवेत्यादि तदुत्तरार्धेन । तच्छब्दोऽयं पूर्वप्रकृतमाधुर्यादिपरः । शृङ्गारादिनवरसनिष्टनवविधजातीनां कारणतावच्छेदकानामङ्गीकारापेक्षया त्रिविधानां तत्समानाधिकरणत्वेन माधुर्यादिगुणानामेव कारणतावच्छेदकत्वकल्पनस्यातिलघुत्वादित्याशयः । शिष्टं तु स्पष्टमेव ॥ १२८ ॥ ननु निरुक्तरीत्या लाघवमाशङ्कय रसगङ्गाधर एव दूषणान्तरेण तत्खण्डितमेव । तद्यथा-शृङ्गारकरुणाशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं प्रातिखिकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम् । परेण मधुरतरादिगुणानां पृथग्द्रुततरत्वादिकार्यतारतम्यप्रयोजकतयाऽभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वादिति । तथाच क्व नाम रसधर्मत्वं माधुर्यादिगुणानामित्याशङ्कय प्रतिबन्द्या दूषणमुद्धरति-यत्त्वित्यादियुग्मेन । तत्रायेनोक्तग्रन्थमर्थतोऽनुवदति-यत्त्विति । तुशब्दः शङ्कान्तरसमुच्चायकः । द्रुतीति । विपुलद्रुतिलक्षण इत्यर्थः । एतादृशे कार्ये । माधुर्येति । प्रचुरमाधुर्यकारणतेति यावत् । अवश्येति हेतोः माधुर्येति गनिति अन्तर्गडुवत्तुच्छमित्यर्थः ।
९८