________________
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
३२३ तामसैकरसस्थो यो धर्मो धीदीप्तिकार्यसौ । ओजो वीरे च बीभत्से रौद्रे च क्रमशोऽधिकम् ॥१२३॥ राजसेषु तु तेषु स्यात्प्राधान्यमुभयोरपि ।
यः सर्वरसगोऽपीन्दुं दीपवच्चीनमम्बुवत् ॥ १२४ ॥ चार्यकमेव । उक्तं हि काव्यप्रकाशकारिकायाम्-'आह्लादकलं माधुर्य शृङ्गारे दृतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्' इति । एतद्व्याकुर्वता प्रदीपकृतापि 'तथाच यद्वशेन श्रोतुर्विमनस्कलं न संपद्ये तत्तदाह्रादकत्वखरूपं माधुर्यमित्यर्थः' इति । नन्वत्र माधुर्यस्याह्लादकत्वमेव खरूपमुक्तं त्वया त्वन्यदेवैतदुक्तमिति कथं न तद्विरोधस्तथा कारिकायां तस्य रसविशेषनिष्ठत्वमुक्तं तदेव च भवताभिहितं प्रदीपे तु यद्वशेन श्रोतुरित्यादिखारस्यात्तस्य शब्दगतत्वमेव प्रतीयत इति तत्रापि तादवस्थ्यमेवेति चेदुच्यते । कारिकायुक्ताहादकत्वस्यैवायं परिष्कार इति ध्येयम् । नोचेत्कारिकायामाह्लादकत्वपदवैयर्थ्यात्प्रदीपलक्षणस्यापि पुत्रजन्मशब्दादावतिव्याप्तेश्च दुरुद्धरत्वं स्यात् । शब्दनिष्टत्वं तु तस्य तदधिकरणव्यञ्जकत्वेनैवेति वक्ष्यते । सात्विकरसेष्वपि तस्योत्तरोत्तराधिक्यं क्रमेणाहभोगेत्यादिशेषेण । तत् माधुर्यमिति अध्याहृत्य योज्यम् । भोगः संभोगशृङ्गारः करुणः प्रसिद्ध एव अयोगः योगाभावरूपो विप्रलम्भः शृङ्गारः शान्तोऽपि स्फुट एव । एतेषां समाहारस्तथा तत्रेत्यर्थः । क्रमादधिकं भवतीत्यन्वयः । यावत्संभोगशृङ्गारे माधुर्यं तदपेक्षया द्विगुणं करुणे त्रिगुणं विप्रलम्भे चतुर्गुणं शान्त इति भावः ।। १२२ ॥ एवं क्रमप्राप्तं ओजोगुणमपि लक्षयति-तामसेति । तामसा अपि रसाः प्रागुक्ता एव वीरादयः । धीति । दीप्तिः प्रतिज्वलनमिवावस्थितिः । शिष्टं तु प्राग्वदेव । तथाच तामसैकरसस्थत्वे सति चित्तदीप्तिकारिधर्मखमोजस्वं बोध्यम् । दीप्तियत्र खाधिकरणाधिकरणावच्छेदेनान्तःकरणस्य सूर्यमणीनां तदुदय इव तेजःप्रसवसंपादनमेव । अतिव्याह्यादिव्युदसनरूपपदकृत्यादिकं तु पूर्ववदेवोह्यम् । इदमप्युक्तं काव्यप्रकाशकारिकायामेव । 'दीप्यात्मविस्तृतेर्हेतुरोजो वीररसस्थितिः । बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु' इति । विवृतं चैतत्प्रदीपे–'तथाच यद्वशाज्ज्वलितमिव मनो जायते तदोज इत्यर्थ इति । असावोज इति संबन्धः । तत् ओज इत्येव योज्यम् । तत्रापि तस्य वीराद्यवच्छेदेनोत्तरोत्तराधिक्यलक्षणं विशेषं कथयति-वीरे चेत्यादिशेषेण १२३ ननु प्रसादाख्यस्य तृतीयगुणस्य तु तव यः सर्वरसगोऽपीत्यादिना सर्वरससाधारण्यस्यैव वक्ष्यमाणत्वाद्धास्यादिषु पूर्वोकराजसरसेषु कः प्रधानो गुण इत्याशङ्कय तत्र ब्राह्मप्रकाशांशप्राधान्येन सत्त्वस्य मायिकध्वान्तांशप्राधान्येन तमसश्च परस्परसांकर्येणोभयप्रधानरूपरजस इव माधुर्योज उभयोरपि समप्राधान्यमेव विवक्षितमिति समाधत्ते-राजसेष्वित्यर्धेन । हास्याद्भुतभयानकेष्वित्यर्थः । अथ क्रमप्राप्तं प्रसादाख्यं गुणं लक्षयति-यः सर्वेति । यः सर्वरसगोऽपि साधारण्येन