SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२९ - साहित्यसारम् ।.. . [पूर्वार्धे द्वितीयस्तु त्रिधैवोक्तः प्रकाशादौ विशेषतः । . माधुर्योजःप्रसादाख्यभेदैः सोऽथ निगद्यते ॥ १२१ ॥ सात्विकैकरसस्थो यो धर्मो धीतिकार्यसौ । माधुर्य भोगकरुणाऽयोगशान्तेऽधिकं क्रमात् ॥ १२२ ॥ मिति । वैशेषिकत्वेन एतत्संज्ञावत्त्वेनेत्यर्थः । आभरणे सरखतीकण्ठाभरण इति यावत् । तद्यथा 'त्रिविधाश्च गुणाः काव्ये भवन्ति कविसंमताः । बाह्या आभ्य. न्तराश्चैव ये चवैशेषिका इति । बाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः । वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः' इति । विस्तरस्तु तत्रैव द्रष्टव्य इति दिक् ॥ १२० ॥ किमथ क्रियत इत्याकाङ्क्षां क्षपयन्योयं माधुर्यादिद्धितीयश्चेति प्राक्समुद्दिष्टभावरूपमाधुर्याद्यभिधद्वितीयगुणोऽवसरप्राप्त इति तत्कथनं तस्य प्राचीनाचार्यसंमतभेदसंख्यानामनी अभिधाय प्रतिजानीते-द्वितीयस्त्विति । माधुर्येति । प्रकाशादौ काव्यप्रकाशादौ । आदिना काव्यप्रदीपः विशेषतः गुणाधिक्यवादिखण्डनरूपविशेषेणेत्यर्थः । त्रिधैवोक्त इति संबन्धः । कण्ठाभरणायविरोधं त्वग्रे वक्ष्याम इति संक्षेपः ॥ १२१ ॥ तत्र माधुर्यं लक्षयति-सात्विकेति । यः सात्विकेति सात्विकाः शृङ्गारकरुणशान्ताः प्राडिरूपिता एव चतुर्थ. रत्ने क्रमात्सात्विकराजससात्विकतामससात्विकसात्विकाख्यावान्तरभेदैः । एकपदं वीरादिराजसरसान्तरव्युदासार्थम् । एवंच शृङ्गारादिसात्विकमात्ररसनिष्ठ इत्यर्थः । एतादृशः अतएव धीति । धीति चित्तद्रवं करोतीति तथा । खाधिकरणाधिकरणावच्छेदेनान्तःकरणस्य चन्द्रमणीनां तदुदय इव सुस्निग्धत्वसाधक इति यावत् । असौ धर्मः माधुर्यं भवतीति संबन्धः । तथाच सात्विकैकरसस्थत्वे सति चित्तद्रवकारिधर्मत्वं माधुर्यसामान्यलक्षणं फलितम् । ओजःप्रभृतावतिव्याप्तिव्यावृत्तये सात्विकेति । ओजसः प्राधान्येन वीरादितामसेषु तौल्येनाद्भुतादिषु राजसेषु तथा प्रभृतिपदगृहीतस्य पूर्वोक्तदोषाभावरूपस्य च गुणस्य सर्वरसेषु साधारण्येन विद्यमानत्वात् । एवमेकपदेन सर्वरससाधारणे प्रसादे तयुदासः शृङ्गारा. धन्यतमत्वलक्षणसालिकरसत्वेऽतिप्रसङ्गभङ्गार्थ उत्तरदलम् । तस्य सामान्यरूपत्वेन धीतिकारिधर्मत्वाभावात् । तत्रापि कामिनीज्ञानरूपालम्बनविभावे खेदाख्यसालिकानुभावजनके देहदृतिकारित्वेन तद्वारणार्थ चित्तेति । नच तस्य रस जनकत्वेन रसस्थत्वाभावात्पूर्वदलस्यैव राहित्येन क्वातिव्याप्तिशङ्काविषयलमपीति वाच्यम् । 'विभावाद्यैरपाज्ञानचिद्वेद्यः स्थाय्यसौ रसः । यद्वा तत्संयुतिव्यक्तस्थाय्युपाधिश्चिदेव सः' इति पूर्वोक्तरसलक्षणात्तत्रापि तत्सत्वेनोक्तशङ्कायाः सुसंभावितलात् । नहि तैलवर्तिज्वालासयोगाभिव्यक्तप्रदीपकलिकायां तैलाद्यसत्त्वं नाम । अन्यथा कज्जलादौ स्नेहाद्यनुपलम्भप्रसङ्गात् । उत्तरदलमात्रोक्तौ पुत्रस्ते जात इत्यानन्दपारवश्यवशचित्तद्रवकारिवाक्यरूपशब्दाख्यधर्मेऽतिव्याप्यापत्तिरिति पूर्वदलम् । तस्य परंपरयापि निरुक्तरसस्थत्वाभावात् । धर्मपदं खत्र खरूपपरि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy