________________
सरसामोदव्याख्यासहितम् ।
अथार्थेऽर्थाप्रतीतिस्तु व्याहते च विरोधिनि । साकाले चाथ वैरस्यं भूयादनुचिते तथा ॥ ११५ ॥ त्यक्त्वा पुनः स्वीकृते च परुषादौ तथैव च । श्रोतृवैमुख्यमेवं दुष्क्रमे चाप्यनवीकृते ॥ ११६ ॥ परिवृत्ते विद्व्ययुक्ते विरोधः पदमुक्तके । प्रकाशितविरुद्धेऽथोभयादेयाद्यधीरपि ॥ ११७ ॥ सखिभिन्ने रसे तु स्यादनौचित्यादिना विदाम् । आस्वादस्यैव सर्वत्रोपघात इति हि स्थितिः ॥ ११८ ॥ तदेवं नित्यदोषास्तु सर्वेऽप्यङ्केन्दुभूमिताः । अपवादास्तथैकोनषष्टिसंख्याः परे दश ॥ ११९ ॥ एवं पूर्वप्रतिज्ञातगुणयोः प्रथमो मया ।
1
उक्तो वैशेषिकत्वेनाभरणे यः प्रपञ्चितः ॥ १२० ॥ मादित्रिविध इत्यर्थः ॥ ११४ ॥ तदेवं षट्त्रिंशत्संख्याकवाक्यदोषेषु दूषकताबी - जमभिधायार्थदोषेषु तदभिधत्ते - 'अथेत्यादिचतुर्भिः । व्याहते द्विविधे विरोधिनि । धर्मशास्त्राद्यवच्छेदेन सप्तविधविरोधशालिनीत्यर्थः । साकाङ्क्षे च एवं दशविधदोषेष्वर्थाप्रतीतिर्दूषकताबीजमस्तीति योजना ॥ ११५ ॥ परुषादाविति । सप्तविध इत्यर्थः । तथेत्याद्युक्तार्थमेव । एवमनुचितादौ नवविधे वैरस्यं भूयादिति संबन्धः । दुष्कमे द्विविधे ॥ ११६ ॥ परिवृत्त इति । त्रिविध इत्यर्थः । विधीति । द्विविध इत्यर्थः । एवमष्टविधे श्रोतृवै मुख्य मित्यन्वयः । पदेति । प्रकाशितेति अनयोर्विरोध इति संबन्धः । उभयेति ॥ ११७ ॥ सखीति । सहचरभिन्ने उभयोरर्थयोरुपादेयत्वानुपादेयत्वाप्रतीतिरिति त्रिंशत्संख्याकार्थदोषेषु दूषकताबीजानि विज्ञेयानीति शेषः । एवमर्थदोषेषु तदुक्त्वारस दोषेषु सर्वत्र अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । ‘औचित्योपनिबन्धस्तु रसस्योपनिषत्परा' इति प्रदीपवचनात्सर्वत्रैकमेव प्रायस्तदित्याह -- रसे त्विति । आदिनाङ्ग विस्तरादिस्थले प्रधानविरो. धानं बोध्यम् । उपसंहरति - इतीति । हिरवधारणे । स्थितिः सिद्धान्तोऽस्तीत्यर्थः । अत्र तत्र तत्र प्रमाणप्रपञ्चस्तु प्रकाशप्रदीपादित एव ज्ञेय इति संक्षेपः ॥ ११८ ॥ अथ सर्वेषां नित्यदोषाणां तथापवादानां च संख्यां प्रख्यापयतितदेवमिति । तत्तस्मान्निरुक्तापवादरूपकारणादित्यर्थः । एवमुक्तसंज्ञकाः सर्वेऽपि नित्यदोषाः । अङ्केन्द्विति । 'अङ्कानां वामतो गतिः' इति वचनात् अङ्काः नव इन्दुः एकः भूः एकः एतैः मिताः पूर्वरत्नोकाष्टसप्तत्यधिकैकशत दोषेभ्योऽवशिष्ट. त्वेनैकोनविंशत्यधिकैकशतसंख्याका एव संमताः सन्तीत्यन्वयः । तथैव अपवादा अपि एकोनषष्टिसंख्यास्तथा परे प्रागुक्तार्थिकादयोऽन्येऽपि दश वर्तन्त इति संबन्धः ॥ ११९ ॥ एवं प्रतिज्ञातदोषाभावरूपगुणनिरूपणं मया यथामत्यत्र कृतं विस्तृतं तु तत्सरस्वतीकण्ठाभरण एव द्रष्टव्यमित्याशयेनोपसंहरति - एव
गुणरत्नम् ७ ]
३२१