________________
साहित्यसारम् ।
[पूर्वार्धे नेयार्थेऽमृष्टबोध्यांशेऽपुष्टार्थे चाप्रयोजके। स्वार्थाप्रतीतिरेवानुचितार्थेऽसौ विरोधिनी ॥ १०८॥ वाक्यत्वाद्यद्वयान्यैतदतिदेशेष्विमे तथा। पदैकदेशयोश्चावाचकनेयार्थयोरपि ॥ १०९ ॥ शीघ्राबोधो विसंध्यादिविकृतेषु तथैव च। संकीर्णे च निराकाङ्गेऽप्यथो रसविरोधिता ॥ ११०॥ वर्णतः प्रतिकूले च हतवृत्तेऽक्रमे तथा । अमतान्यार्थकेऽथ शवैमुख्यं निर्विसर्गके ॥ १११ ॥ अस्थानस्थसमासे च प्रसिद्धिविधुते तथा । भग्नक्रमे सप्तविधे संनिपाते तथैवच ॥ ११२॥ इष्टप्रतीतिविरहस्त्वभवन्मतयोगके। विरुद्धार्थप्रतीतिर्वै तथानभिहितार्थके ॥ ११३ ॥ अपेक्षिताप्रतीतिः स्यादस्थानस्थपदेऽपि च । साधर्म्यविलयो भिन्नवचनाद्युपमेऽपि च ॥ ११४ ॥
विंशत्यधिकैकशतसंख्याका नित्यदोषास्तेषां किं दूषकताबीजमित्याकाङ्क्षायां संक्षेपतस्तदनुक्रमेण व्युत्पादयति सप्रतिज्ञं अथेत्यादिद्वादशभिः ॥ १०७ ॥ अमृष्टेति छेदः । अविमृष्टविधेयांश इत्यर्थः । अपुष्टेतिच्छेदः । स्वाथैति । निरुक्तसप्तप्रका. रके। पददोषे दूषकताबीजमस्तीत्यन्वयः । अनुचितेति । एतन्नामके पददोषे तु आसौ प्रतीतिः विरोधिनी विवक्षिततिरस्कारकार्योपस्थितिरेव भवतीति संबन्धः ॥ १०८ ॥ एवं पददोषे तु तदुक्त्वाथ वाक्यदोषेषु कथयनुक्काद्यदोष. द्वयभिन्ना वाचकादिषडिधपदातिदैशिकवाक्यदोषेष्वपि अनुचितार्थेतरपञ्चसु तथा तस्मिंश्च मादर्थाप्रतीतिविरुद्धार्थप्रतीती अतिदिशति-वाक्ये त्वित्याद्यधैन । वैलक्षण्यार्थस्तुशब्दः । इमे निरुक्तप्रतीती तथा प्रागुक्तरीत्या । एवं पदैकदेशयोरपि आर्थाप्रतीतिमतिदिशति-पदेत्याधुत्तरार्धेन । अपिः समुच्चये । ॥ १०९ ॥ अथ केवलवाक्यदोषेषु तदाह-शीघ्रत्यादिपञ्चभिः । आदिना त्रिधाकुसंध्यादि सप्तप्वेतेषु शीघ्राबोधस्तदित्यादि योजना ॥ ११० ॥ अमतेति। अमतपरार्थ इत्यर्थः । छेदो यतिभङ्गभेदेन द्विविधं हतवृत्तं गृहीत्वा पञ्चखेतेषु रसविरोधितेत्यादिप्राग्वत् । निर्विसर्गके उपहतविसर्गादित्रिविध इत्यर्थः ॥१११॥ सप्तेति । सप्तप्रकारके भन्ने प्रक्रम इत्यर्थः । ज्ञेत्यादिपूर्ववत् ॥ ११२ ॥ इष्टेति । तुशब्दः पूर्ववैलक्षण्यार्थः । अपवदिति । षोडेत्यर्थः । अनभिहितेति । अनभिहितवाच्य इत्यर्थः । तथाशब्दः समुच्चये । वैशब्दोऽवधारणे ॥ ११३ ॥ अपेक्षितेति । साधर्म्यति । साधर्म्यविघटनमित्यर्थः । भिन्नेति । भिन्नवचनोप