________________
३१८ साहित्यसारम् ।
[ पूर्वार्ष गुणत्वकरणं दोषे वर्णे श्रुतिकटौ पदे । ग्राम्ये क्लिष्टे च परुषे वाक्ये चापि हि तादृशे ॥ ९४ ॥ अर्थे ग्राम्ये तथाऽयुक्तानुवादे चेति खेटगम् । एवं दोपेऽपि तत्त्वैकनिवारणमथो पदे ॥ ९५ ॥ त्रिधाश्लीले च संदिग्धेऽप्यप्रतीते तथैवच । वाक्येऽपि तादृशे तस्यैकदेशेऽनप्रतीतके ॥९६॥ शुद्ध वाक्ये न्यूनपदे तथाधिकपदेऽपि च । शब्दार्थोक्तपदे संस्यत्प्रकर्षे पूरितात्तके ॥९७ ॥ अर्धान्तरगते गर्भितेऽन्यलिङ्गेऽशरीरके। तथार्थे चापि संदिग्धे निहतो कव्यसंमते ॥९८ ॥ विशेषपरिवृत्ते चालीलेऽपीत्यङ्कडिमतम् । दोपे गुणोपयोगस्तु पदे स्यादप्रयुक्तके ॥ ९९ ॥ निहतार्थ निरर्थं च विरुद्धमतिकृत्यपि । अप्यन्यसंगते वाक्ये निरर्थेतरतादृशे ॥ १०० ॥ पदैकदेशे निहताथै निरर्थे तथैवच । शुद्धवाक्ये त्रिधाऽरीतिमतिसंवन्धवर्जिते ॥ १०१ ॥ अर्थेऽपुष्टे च कष्टे च पुनरुक्ते द्विधोदिते ।
रसे स्ववास्थसंचारिण्यपि बाध्यविभावके ॥ १०२॥ तत्र तत्त्वैकवारणं केषां च गुणाद्योपथिकलेन तदयाच्यत्वं फलमिति विषयविभागाकाहायां तं दशभिः प्रपञ्चयन्प्रथमव्यवस्थां प्रथयति-गुणत्वेत्यादिसाधैन ! लादशे ग्राम्यादिरूपे ॥ ९४ ॥ खेटगं ब्रहालयनवसंख्याकापवादानेष्ट मित्यर्थः । तद्धितीयमपि स्पष्टयति--एवमित्यादिचतुर्भिः । तत्त्वं दोप-वम् ॥ ९ ॥ तादृशे त्रिधाश्लीलादिपञ्चविध इत्यर्थः । तस्य पदस्य एकदेशे अनप्रतीत के अप्र. तीतेतरनिरुक्तपञ्चविध इत्यर्थः ॥ ९ ॥ शुद्ध इति । वाक्यमावदोषापवादस्थल इत्यर्थः । शब्देति । शाब्दिककथितपदं आर्थिक कथितपदमिति भेदेन द्विविधतदोषापवादस्थल इति यावत् । संस्यदिति । पतत्प्रकर्ष इत्यर्थः । पूरितेति । समाप्तपुनरात्त इति यावत् ॥ १७ ॥ अर्धेति । अर्धान्तरगैकवाचके । अन्येति । भिन्नलिझोपम इत्यर्थः । कवीति । कविसमयविरुद्ध इतियावत् ॥ ९८ ॥ अङ्केति । एकोनत्रिंशत्संख्याकं दोषे दोषत्वैकनिवारणमधिकरणभेदेन भवतीति संबन्धः । एवं तृतीयमपि तद्विशदयति-दोष इत्यादिसार्धचतुर्भिः-गुणेति । गुणाद्यौपयिकत्वेन त्याज्यत्वाभाव इत्यर्थः ॥ ९९ ॥ निरर्थेतरेति । निरर्थत. राप्रयुक्तादिपञ्चविधपदातिदेशदोषरूप इत्यर्थः ॥ १०० ॥ शुद्धति । वाक्यमात्रदोषापवाद इति यावत् ॥ १०१ ॥ द्विधेति । पदार्थवाक्यार्थभेदादित्यर्थः । स्वेति । खस्य व्यभिचारिभावस्य या वाक् तद्वोधकः शब्दः तेन तिष्ठति प्रति,