SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । ३१७ न रसो नापि वक्रादेरौचित्यादि च यत्र तत् । ते सर्वेऽच्युतसंस्कारा नो दोषा नो गुणा अपि ॥ ९२॥ वने प्रचारयन्तं गाः प्रहर्षितमधुव्रतम् । पद्मानन्दमहं वन्दे तमश्चरहरं हरिम् ॥ ९३॥ इदमेवोदाहरणमपि । तद्यथा । इदं हि पाण्डित्यवीररसाविष्टचेतसः कस्यचिन्मध्यस्थस्यैव कथमिदं त्वया अशुद्धमुच्यत इत्याक्षिपन्तं सिद्धान्तिनं प्रति भो सिद्धा. न्तिन् , प्रतिवाद्यनुकरणमेव मया कृतमित्येकं समाधानमभिधाय द्वितीयं तदभिधातुं वचः अस्मिन्पक्षे तथावतेत्येकं पदम् । तादृशस्यानुभूताद्वैतस्य वक्तेत्यर्थः । रसेति । सर्वेपि दोषाः गुणतां गताः भवन्तीत्यपीतरे पण्डिताः वदन्ति नत्वहमिति । तेनात्र अभवन्मतयोगाख्यनित्यवाक्यदोषवत्त्वेऽपि नैव दुष्टत्वमिति तत्वम् । उक्तहि रसगङ्गाधरे-'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः' इति पद्ये यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्वितीयार्धे अधमोत्तमवचनं क्रमभङ्गमावहति तथापि वक्तुब्रह्मात्मकतया उत्तमाधमभावज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एवेति ॥ ९१ ॥ एवमुक्तदोषाणां यत्रापवादेन न गुणत्वं नापि दोषत्वं तत्कथयति-नेति । कर्मीभूतं तत्स्थलमित्यर्थः । एवमेवोकं प्रदीपे–'क्वचित्पुनर्न दोषत्वं नवा गुणत्वमित्युपक्रम्य 'येन ध्वस्तमनोभवेन' इत्युदाहृत्यात्र माधवपक्षे राही शशिमत्पदमप्रयुक्तं क्षयपदं गृहे निहतार्थम् । नच श्लेषरूपालंकारप्रयोजकतया गुणत्वमपि शङ्कनीयम् । तत्त्वस्य तत्राप्रयोजकत्वादिति ॥ ९२ ॥ तदुदा. हरति-वन इति । वृन्दावने पक्षे 'जीवनं भुवनं वनम्' इत्यमरादुदक इत्यर्थः । गाः धेनूः पक्षे किरणान् 'गौः खर्गपशुवाग्वज्रदिड्त्रघृणिभूजले' इत्यमरात् । प्रचारयन्तं संचायरयन्तमित्यर्थः। अतएव प्रहर्षितेति । खबाललीलानन्दितमदिरावादरसिकबलभद्रमित्यर्थः । पक्षे कमलविकासद्वारा परितोषितषटपदमिति यावत् । तत्र हेतुः पद्मति । पद्मां रमां आनन्दयति स तथा । अहो यः साक्षालक्ष्मीरमणः स इदानीं गोपत्वकैतवेन बल्लवबालान्त्सल्लालयतीति महदाश्चर्यमिति विस्मयः प्रतिज्ञातबलरामप्रहर्षणे हेतुः स्फुट एव। तस्यैव निरुक्तभगवन्माहात्म्याभिज्ञलात्। पक्षे कमलविकासकमित्यर्थः । अतएव तमश्चरेति । तमश्चराः पूतनाद्यसुरास्तान्हरति संहरतीति तथा । पक्षे तमश्चरा उलूकास्तेषां तत्रैव संचारात् तेषां चक्षुषि हरतीति तथा । एतादृशं हरिं श्रीकृष्णं पक्षे सूर्य अहं वन्द इत्यन्वयः। एतेन ग्रन्थमध्ये मङ्गलमपि ध्वनितम् । अत्र श्रीकृष्णपक्षे बलरामे. मधुव्रतपदमप्रयुक्त सूर्यपक्षे तमश्चरहरपदं च नेयार्थमपि निरुक्तदेवताद्वयविषयकवकृभक्तरत्यात्मकभावध्वनावत्र रसराहित्येन नो दोषो नापि श्लेषसाधकत्वेन गुणस्तस्य तत्राप्रयोजकत्वान्मधुव्रतस्थाने सुदृक्कुलमिति चरस्थाने स्तोमेति च विन्यासेन तस्यान्यथापि साधयितुं शक्यत्वाचेति दिक् ॥१३॥ अथ केषां दोषे गुणवकरणं केषां वा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy