SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१६ साहित्यसारम् । इत्यर्थगापवादेन शिष्टात्रिंश तदेकगाः । नित्यदोषास्तथैवैते रसगा द्वादशापरे ॥ ८६ ॥ नव्याद्युक्तास्तु नित्याः स्युर्दोषास्ते पञ्चविंशतिः । काव्ये रसे च सामान्यान्मधुरादौ विशेषतः ॥ ८७ ॥ तदेवं सप्तषष्ठयेव सिद्धा अर्थादिगाः क्रमात् । नित्यदोषा बुधैर्हेयास्तेऽर्थादावतियत्नतः ॥ ८८ ॥ प्रागुक्ताशीतिदोषेष्वर्थादिनिष्ठेषु चार्थगाः । एकादशापवादाः स्युस्तथा द्वौ रसगौ हितौ ॥ ८९ ॥ इति त्रयोदशैवं ते यदा तेभ्यो निराकृताः । तदानीमुक्त संख्यास्ते नित्यदोषाः सुसंगताः ॥ ९० ॥ अनुकारे तु सर्वेऽपि दोषास्ते गुणतां गताः । तथा वक्ता रसाविष्टचेताश्चेदित्यपीतरे ॥ ९१ ॥ [ पूर्वानें अथ निरुक्तापवादावशिष्टानां सर्वेषां नित्यानामर्थादिदोषाणां संख्यां प्रत्येकं सपिण्डीकृत्य कथयंस्तेषां काव्यनिबद्ध्यार्थादिष्ववश्यत्याज्यतां विधत्ते - इतीत्यादित्रिभिः । इति पूर्वोक्तरीत्या | अर्थेति । अर्थेषु गच्छन्तीति तथा अर्थदोवास्तेषामपवादेनेत्यर्थः । शिष्टाः उर्वरिताः तदेकगाः अर्थैकनिष्ठाः त्रिंशत् एतत्संख्याकाः । नित्येति । एते रसभावस्वशब्दवाच्यतादयो दोषरत्नोक्ता इत्यर्थः । रसेति । अपरे अन्ये द्वादश एतत्संख्याका इत्यर्थः ॥ ८६ ॥ नव्यादीति । आदिना स्वोक्तयुष्मदस्मत्प्रयोगप्राचुर्यरूपरसदोषसंग्रहः । काव्य इति । काव्ये सामान्यान्नित्यदोषाः षट् नव्यमते रसे च मधुरादौ रसे विशेषतश्च तत्रैवाष्टादशेत्येवं चतुर्विंशति संख्याकाः स्वोक्तश्चैक इति पञ्चविंशतिस्ते नित्याः दोषाः स्युरि• त्यन्वयः ॥ ८७ ॥ उपसंहरति — तदेवमिति । तत्तस्मात् हेतोः एवं पूर्वोक्तगणनया क्रमात् अनुक्रमेण अर्थादिगाः अर्थरसादिनिष्ठा इत्यर्थः । सप्तषष्ठयेव नित्यदोषाः सिद्धाः सन्तीति संबन्धः । किं ततस्तदाह - बुधैरित्यादिना । बुधत्वमात्रशाब्दादिसकलशास्त्रवित्त्वे सति कविताशक्तिमत्त्वमेव । ते निरुक्तदोषाः अर्थादावतियत्नतो हेयाः त्याज्या इति योजना ॥ ८८ ॥ ननु कथं निरुक्तापवादैः पूर्वोकार्थादिदोषेभ्यो निरुक्तसंख्याका एव नित्यदोषा अर्थादिगा इति निर्णीयत इति पूर्वग्रन्थविस्मृतिशीलं प्रति तत्सर्वमुद्वाव्य समाधत्ते - प्रागुक्तेत्यादियुमेन ॥ ८९ ॥ इतीति । इति उक्तप्रकारेण एवं मिलित्वा त्रयोदशेति संबन्धः ॥ ९० ॥ अथ सर्वेषामपि दोषाणां प्राच्यनव्यसंमतौ द्वावपवादौ क्रमेण पूर्वात्तरार्धाभ्यां विधत्ते - अनुकारे त्विति । तदुक्तं काव्यप्रदीपे - ' अथ पदादिदोषाणामप्यदोषत्वं क्वचिदित्याह । अनुकरणे तु सर्वेषाम् । प्रतिपादितदूषकताबीजाभावात् । तत्र वैरस्याभावस्यानुभाविकत्वेन तदतिरिक्तस्थल एव दोषत्वव्यस्थितेः । यथा 'मृगचक्षुषमद्राक्षमित्यादिकथयत्ययम्' इत्यादि । तथेति । -
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy