________________
सरसामोद व्याख्यासहितम् ।
एवं नवापवादाः स्युः सर्वेऽमी रसदोषगाः । तत्र स्वपदवाच्यः संचारी बाध्यो विभावकः ॥ ८३ ॥ द्वाविमौ प्राच्यौ तेनान्ये सप्तेत्यर्कसंमिताः । नित्यदोषास्तु संचारी तादृशस्त्वार्थिको मतः ॥ ८४ ॥ शिष्टाः षोढा तु पूर्वोक्तप्राच्यनव्योभयोर्मताः । आर्थिकाः पर्युदस्ता त्यादि ज्ञेयं विपश्चिता ॥ ८५ ॥
गुणरत्नम् ७ ]
३१५
सुखं यथा भवति तथा शेरते सुप्त इव भवन्तीत्यन्वयः । अतएव श्रूयते - 'तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरमेवमेवायं प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' इति । अत्र शान्तरसानुभावविशेषे उपमानभावेन तत्पोषकत्वाद्विरुद्धोऽपि शृङ्गारो गुण एवेति । यथावाऽस्मदीयाद्वैतामृतमञ्जर्याम् – ' रसभरितापि गतरसा चतुरतरापि प्रमन्थरोत्थाने । विलसवि मतिरैकान्ते शान्तस्येयं रतान्तकान्तेव' इति । अत्रापि प्रकृतश्लेषवदुपमया शृङ्गारशान्तौ ॥ ८२ ॥ इत्थं दोषरत्नीयरस दोषप्रसङ्गपर्युदासध्वनितापवादपञ्चकमध्येऽन्याङ्गत्वप्रतिप्रसवमात्रस्य साक्षात्त्वादिना द्वैविध्यविशदीकरणात्क्रमेण षोढा रसदोषापवादकथनमुपसंहरं स्तत्संख्यां कथयति - एवमिति । किमिमे प्राच्यमतसिद्धानां रसदोषाणामपवादाः किंवा नव्यमतसिद्धानां तेषामिति प्राक्तनग्रन्थाननुसंधानजन्यशङ्कायां तद्विभागं कथयति -- तत्रेति । तेषु नवसंख्याकरसापवादेषु मध्ये इत्यर्थः । स्वेत्यादि । इदमुत्तरार्धशेषजातं द्वाविमौ प्राच्यगावित्यनेन संबध्यते । तेनैतयोर्न - व्यमते व्युदासः सूचितः ॥८३॥ इत्युद्दिष्टोऽखपदवाच्यव्यभिचारिबाध्य विभावावनूद्य तयोः प्राच्यमत सिद्धरसदोषविषयकत्वं विधत्ते – द्वाविमाविति । फलितमाहतेनेति । नित्येति । प्राच्यमतसिद्धा नित्या रसदोषा इत्यर्थः । एवं तर्हि शिष्टानां सप्तानां रसदोषापवादानां कथं व्यवस्थेत्यत आह त्वित्याद्यग्रिमकारिकान्तेन । तुशब्दस्त्ववशिष्टवैलक्षण्यार्थः । तादृशः 'विरुद्धोपि संचारी बाध्यश्चेगुणतामियात्' इत्यनुपदोक्तरीत्या बाध्य इत्यर्थः । तुशब्दः पुनरर्थे । आर्थिकः प्रातिकूलो विभावादिः प्रकृतस्य रसस्य य इत्यादिदोषरत्नीयश्लोके आदिपदगृहीत इत्यर्थः । मतः प्राचामेव संमत इत्यर्थः ॥ ८४ ॥ शिष्टाः अवशिष्टाः षोढा सामानाधिकरण्येनेत्याद्यनुपदमेवाष्टभिः पद्यैरुक्ताः षट्प्रकारका रसदोषापवादा इत्यर्थः । तुशब्दो वैलक्षण्यार्थः । पूर्वोक्तेति । निरुकदोषरत्नकारिकाटीकायां प्रदीपकारादीनां प्राच्यानां आर्थिकाः कण्ठतोऽनुक्तत्वेप्यर्थसमाजायातत्वेन तथा तत्रत्यायामेवानैकाधिकरण्यं चेत्यादिसार्धकारिकायां टीकोदाहृतरसगङ्गाधरकाराख्यनव्यालंकारिकाणां पर्युदस्ताः पर्युदासविषयत्वेन यथाक्रमं मताः संतीत्यादिविपश्चिता ज्ञेयमिति सबन्धः । आदिना स्मृतविरुवस्तु रसो नव्यमतेऽनुक्तो ऽप्यन्याङ्गान्तर्भूतत्वेन तत्संमत इति ध्येयम् ॥ ८५ ॥