SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 3: साहित्यसारम् । पूर्वार्ध अङ्गस्याङ्गतयापि स्तो विरुद्धावपि तौ तथा।। .. चिदहं मांसमीति चित्रोपरतिरस्ति मे ॥ ८१॥ कवेः साम्यविवक्षायां विरुद्धोऽपि रसो गुणः। सुदृशालिङ्गिताः सन्तः शेरते सरसाः सुखम् ॥ ८२ ॥ येति ॥ ८० ॥ एवं द्वितीयरीत्यापि तमपवदति-अङ्गस्येति । एकस्य साक्षादङ्गत्वमपरस्य तु तदङ्गतयाङ्गत्वमिति वैषम्यात्परम्परासंबन्धेनाङ्गीभावेनापीत्यर्थः। तौ रसौ विरुद्धावपि परस्पर प्रतिकूलावपि तथागुण एव स्तः भवत इति संबन्धः । चतुष्टयमपीदमुक्तं काव्यप्रकाशकारिकायाम्-‘स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः। अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम्' इति । विस्तरस्त प्रकाशप्रदीपादावेवाभिवेदितव्यः। तमुदाहरति-चिदिति । इदं हि कस्यचिद्गृहिणो जीवन्मुक्तस्य स्वमनस्येवतुकालिकविहितसुरतोत्तरं वाक्यम् । अहं देवदत्तः चिदपि अद्वैतसच्चिदानन्दानन्तात्मब्रह्मरूपोऽपीत्यर्थः । यतः मांसमदर्दी मांसं खकामिनीकुचकनककमलमुकुलायमानमलं मर्दयति निरुक्तसुरतारम्भे खकराभ्यामास्फालयतीति तथा एतादृशोऽस्मीति हेतोः मे उपरतिः तत्त्वसाक्षात्कारजन्ययावदृश्यमिथ्यात्वेन यावद्वैतवैरस्यप्रयोज्योपशान्तिरिति यावत् । चित्रा वि. चित्रा । यद्वा आलेख्यरूपत्वेनालीकप्रायेत्यर्थः । एतादृश्यस्तीति योजना । एकपदपक्षे तु चित्रप्राये खकलत्रे मिथ्याभूतेऽपि स्वयुवतिशरीर इत्यर्थः। उपेव 'उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते' इति श्रीमद्वार्तिककारचरणवचनादामनीव रतिः प्रीतिरिति यावत् । यद्वा चितैव त्रायत इति चित्रा तत्त्वज्ञानकरक्षितेत्यर्थः । एतादृशी उपरतिरस्ति अपितु काका नास्तीत्यर्थः । एवंच सर्वथाप्यत्र शान्तस्याद्भुतस्य वाङ्गं बीभत्सो मांसपदद्योतितस्तस्याप्याङ्गमर्दिरतिपदध्वनितः शृङ्गार इति ताभ्यां साक्षात्परंपरया च मुख्योऽङ्गी शान्त एव व्यङ्गय इति तयो. रुक्तरीत्या विरुद्धयोरप्यविरोध एवेति भावः । यथावा अमरुकपद्यम्-'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः' इति । अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गं तस्य शृङ्गार इति प्रदीपकारः । अधिकं तु सर्व तत एव ज्ञेयमिति ॥ ८१ ॥ तद्वत्कविसंमतसाधर्म्यऽपि विरुद्धरसयोर्गुणत्वं भवतीत्याहकवेरिति । स्मर्यमाणादिचतुष्टयमपीदमुक्तं काव्यप्रकाशकारिकायाम्-‘स्मर्यमाणो विरुद्धोऽपि साम्ये नाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम्' इति । तदुदाहरति-सुदृशेति । सरसाः 'रसो वैसः' इति श्रुतेः रसेत प्रत्यक्षीकृताद्वैतब्रह्मणा सहिताः ब्रह्मविद इत्यर्थः । पक्षे सानुरागास्तरुणाः सुदृशा ब्रह्मविद्यया, पक्षे खमृगाक्ष्या । जात्यभिप्रायकमेवैक्यम् । आलिङ्गिताः जीवन्मुक्तिवेलायां तन्मात्रे वृत्तिसत्त्वेन खाभिन्नतामिवानीता इत्यर्थः । पक्षे स्पष्टमेव ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy