________________
३१३
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
स्मृति यातो विरुद्धोऽपि रसो नो दोषतामियात् । गामाश्लिषन्ति यैः श्लिष्टा दशापि हरिदङ्गनाः ॥ ७९ ॥ साक्षादङ्गत्वमापन्नौ विरुद्धावपि तौ गुणः ।
अहो श्रीगुरुमाहात्म्यं वने मुक्तिः स्वयं हि माम् ॥ ८॥ पलक्षितनिर्गुणविष्णुविषयकखप्रेमात्मकभावध्वनौ प्रधाने अङ्गीभूतयोः पूर्वार्धध्वनितशृङ्गारतृतीयपादत्रयपदध्वनितशान्तयो रन्तर्यप्रयुक्त विरोधे प्राप्ते तं स्म. राम इति पदद्वयेतरशिष्टध्वनिताद्भुतस्याङ्गीभूतस्यैव मध्ये निवेशेनाविरोधाद्गुण एवेति भावः । विस्तरस्तु प्रदीप ज्ञेयः ॥ ७८ ॥ एवं स्मृतिमपि विरुद्धरसमपवदति--स्मृतिमिति । तमुदाहरति-गामिति । इदं हि रावणमरणे रणागणे समागतमन्दोदरीवाक्यम् । त इमे दशग्रीवबाहव इति दशपदान्यथानुपपत्तिसिद्धमार्थिकम् । गां पृथ्वी आश्लिषन्ति आलिङ्गन्तीत्यर्थः । ते क इत्यत आह
यैरिति । यैः दशापि हरिदङ्गनाः हरित एवाङ्गनाः श्लिष्टा आलिङ्गिताः प्रागासन्नित्यर्थः । एवंच वीर्यातिशयः सूचितः । अत्र स्मर्यमाणो वीररसः प्रकृतकरुणेन सह विरुद्धोऽपि स्मृतिविषयत्वात्तथा प्रकृतरसपोषकत्वेन तदङ्गलाद्गुण एवेति भावः । यद्वा तद्भुजानां विंशतित्वात्तस्य चाञ्जनवर्णत्वात्तदपहृतदेवगन्धर्वादिवधूनां कनकगौरत्वात्तत्कान्तिप्रतिबिम्बनेन तासां तत्क्षणावच्छेदेन हरिद्वर्णत्वाच्च शृङ्गार एव रसोस्तु । यथावा भर्तृहरिपद्यम्-'यदासीदज्ञानं घनतिमिररुद्ध च नयने तदाऽशेषं विश्वं मम तरुणनारीमयमभूत् । इदानीमस्माकं पटुतरविवे. काजनदृशां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्ममनुते' इति । इह शान्तशृङ्गारयोविरोधेऽपि स्मर्यमाणत्वात्तथात्वमिति दिक् ॥ ७९ ॥ अथाशीभूतयोविरुद्धयो रसयोर्नैव दूषकत्वमिति वक्तुं लोके तावदेकत्राङ्गिनि विरुद्धयोयोरङ्गत्वं द्विविधम् । एकं तुल्यबलतया साक्षादपरं तु परम्परयेति । अनूद्यमानत्वं तूभयत्रापि समानमेव । मुख्याङ्गिन एव विधेयत्वात् । यथा परस्परविरुद्धयोरपि भटयोरेकस्य राज्ञोऽङ्गत्वम् । यथावा-विवेकप्रागभावो विवेकस्याङ्गं । सच तत्त्वबोधस्येति । तत्राद्यरीत्या सामान्यतः प्राप्तं प्राग्वदेव रसविरोधाभिधं रसदोषमपवदति-साक्षादिति । तौ रसौ । तमुदाहरति-अहो इति । हिहेतौ । यस्माद्धेतोः मुक्तिः खयमेव मां वने अवृणोत् । अतः श्रीगुरुमाहात्म्यं अद्भुतमेवेत्यन्वयः । अत्रालौकिकगुरुमाहात्म्यवर्णनेनाद्भुते प्रधानतया व्यङ्गयेऽङ्गिनि मुक्तिपदववेपदाभ्यां ध्वनितयोः शान्तशृङ्गारयोरङ्गयोः परस्परविरुद्धयोरपि समसामर्थ्यात्साक्षादङ्गत्वादविरोध एव । यथावा काव्यप्रदीपे—'क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रतैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्वाप्पाम्बुधौताननाः । भीत्या भर्तृकरावलम्बितकरास्त्वद्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव' । अत्र चाटुके राजविषया रतिः तत्र करुणशृङ्गारावुभावपि साक्षादङ्गमिति तन्निहिणैकव्याकुलयोरेकराजकार्योद्यतयोरिव भटयोः सहजतो विरोधोऽपि न दोषा