________________
गुणरत्नम् ७ ]
सरसामोदव्याख्यासहितम् ।
सामानाधिकरण्येन नैरन्तर्येण चेत्यसौ । तद्वैयधिकरण्येन तयोराद्यो भवेहुणः ॥ ७५ ॥ श्रीगुरोः करुणापाने मदङ्गे सति रिङ्गति । द्वैतमेवास विध्वस्तं तत्वानङ्गतरङ्गितम् ॥ ७६ ॥ तिपादितरूपवेद्यान्तरसंपर्कशून्यरसस्य न रसान्तरेण विरोधो नाप्यङ्गाङ्गिभाव इत्य संबद्धमेवैतत्सर्वमिति चेन्न । रसशब्देनात्र प्रकरणे भावस्याभिधानात् रसत इति व्युत्पत्तेरिति । अथ तद्वैविध्यं प्रतिजानीते - सोऽपीति । निरुक्तविरोधोऽपीत्यर्थः । द्विधा साक्षाद्विःप्रकारः परम्परया तु स्मृत्याद्यवच्छेदेन षडिधत्वादिति दिक् ॥ ७४ ॥ प्रतिज्ञातं रसान्योन्यविरोधद्वैविध्यं विशदयति – सामानाधिकरण्येनेति । असौ पूर्वोक्तरसपरस्परविरोधः सामानाधिकरण्येन एकस्मिन्नेवाधिकरणे शृङ्गारतत्प्रतिकूलशान्त रससत्वेनेत्यर्थः । तथा नैरन्तर्येण व्यवधानवैधुर्येण चेति द्विधा भवतीति पूर्वेणान्वयः । तत्राद्यस्योपायमाह - तदिति । तयोः निरुक्तद्विविथरसविरोधयोर्मध्य इत्यर्थः । आद्यः सामानाधिकरण्यप्रयुक्तः प्रतिकूलरसपरस्परविरोध इतियावत् । तदिति । निरुक्तरसयोर्यद्वैयधिकरण्यं अधिकरणभेदेन सत्वं तेनेत्यर्थः । गुणः भवेदिति संबन्धः । तथा काव्यप्रकाशकारिकापि'आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः' इति । ननु भवत्वयं रसविरोधपरिहारस्तथापि कथमसावपवाद कोटिनिविष्टः स्यात्तत्त्वं हि किंचिदवच्छेदेन विहितनिषिद्धान्यतरस्य निषेधविध्यन्यतरत्वमिति त्वयैव प्रागत्र लक्षितम् । प्रकृते तु यद्दोषस्य प्रयोजकं तदेव न कर्तव्यमिति कथ्यन्त इति नैतावता निषिद्धस्य किंचिदवच्छेदेन विधानत्वरूपाद्यपवादत्वं सिद्ध्यतीतिचेन्न । सामान्यविशेषभावेन व्यवस्थासंभवात् । तथाहि पूर्वरत्ने हि प्रतिकूलो विभावादिः प्रकृतस्य रसस्य य इति रसदोषप्रकरणे सामान्यत एव विभावानुभावव्यभिचारिभावरसानां सामान्यतः प्रकृतरसप्रातिकूल्यमात्रं रसदोष इति कथितम् । तत्र संचारिभावस्य तादृशस्य बाध्यत्वावच्छेदेन तथा विभावस्य विरुद्धोऽपि च संचरीत्यादिकारिकाभ्यामपवादः कथितो
भूदिह तु तादृशस्य रसस्य विरोधे कारणं सामानाधिकरण्यं नैरन्तर्य चेति तत्राद्यस्य वैयधिकरण्येनापहारे नापहारे निरुक्तरसदोषापवादः सुघट एवैवं द्वितीयस्यापि मध्ये परस्पर विरुद्धोभय रसाविरुद्ध रसान्तरसंग्रथनेन निरासे जाते स तथा निरुक्तरसदोषापवादस्तु कथ्यत एवानुपदमिति चतुरस्रमेव सर्वमिदम् ॥ ७५ ॥ तदुदाहरति — श्रीगुरोरिति । एतेन स्वकीययोगैश्वर्यरूपशरणागतशिष्यमनोनिष्ठतत्वसाक्षात्कारोत्पत्तितत्फल प्रतिबन्धको भयविधविनाशयोग्यतालक्षणपरिपाकशालिदुरितविशेषध्वंसक्षमत्वलक्षणशक्तिमत्त्वं गुरौ द्योत्यते । अतएवोक्तं प्रपञ्चसारे — 'परिपक्कमलोपेतानुत्सादन हेतु शक्तिपातेन । योजयति परे तत्वे स दीक्षयाचार्यमूर्तिस्थः' इति । प्रपञ्चितं चेदं जीवन्मुक्तिविवेकटीकायां पूर्णानन्देन्दुकौमुदीसमाख्यायां मया । करुणेति । एवंच खस्मिन्नप्यनन्यगतिकत्वलक्षण
1
३११
➖➖➖➖